This page has not been fully proofread.

हैं
 
Y
 
(ततः प्रविशति सागरिका द्वितीया नागरिकां1)
नाग- सखि सागरिक कुमुद्धती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त
तत्र किं विलम्बसे!
 
1
 
साग - सा प्रवृत्तिरधिगता। कुमुवती च वशीकृता ।
नाग- (सानन्दं स्वहस्तेन तस्या हस्ते ताड्यन्ती) सागरिके
जितमस्माभिः॥ कथ्य कन्थ्य की दृशः प्रकार:
 
साग - फणावती हारविचारणाय मदन्तिकं प्रत्यहमायाति तन्मुख
हारप्रवृत्तिमुपदिशन्तीव कुमुवतीसमीपं गतास्मि । तस्यैच
हारमदत्वैव पञ्चषदिनेष्वेव हारं त्वां प्रापयिष्यामीति वदन
प्रत्यहमपि तत्र गत्वा तस्या: सखीषु मूर्धन्यास्मि
नाग- जडाहनित्युक्तवत्या कियत साधितं भवत्या ! ततस्ततः -
साग- साचतव प्रासादे ज्योत्स्नाविहाराय गता। तत्र प्रतिमागतं.
वत्सनालोक्य तदाप्रभृति महान्तं मदनातङ्कमनुभवति । मया
च तद्विज्ञाय शिल्पिभिः कारितं वत्सस्य चित्रपट तस्यै
रहस्यमर्पितम्। ततश्च सा मयि परमं विभ्रम्भमादधांना
सानन्दं चित्रपटमादाय माये पश्यन्त्यामेव -
पश्यन्ती प्रणयार्थकणितहशा मन्दस्मितं कुर्वती
चुम्बन्तीव मुखे मुख निदधती जलपन्त्यनलपं वचः ।
घृत्वा दर्पणमस्तदुरे चित्र स्वमप्युत्सुका
 
दर्श दर्शमहो चकार कति सा ज्ञाता जता विक्रियाः॥३॥
 
* in omits gram तस्यै 10 मूर्धन्यास्मि
 
*