This page has been fully proofread once and needs a second look.

केवलं निद्राविधातः संवृत्त: अनतिलङ्ध्घ्यानि हि
गुरुवचनानि। (प्रकाशम्) अत्र महाराजः।
(राजा शार्ङ्गरवं निरीक्ष्य मञ्चादवतीर्य तिष्ठति।)
 
शार्ङ्गरवः-- (त्वरितमुपसृत्य) जयत्वैक्ष्वाकः।
 
राजा-- नमांसि शार्ङ्गरवाय। कश्चित् भगवत्पादानां
सायन्तनः समाधिर्निवृत्त:।
 
शार्ङ्गरव:-- त्वद्गुणाकृष्टचित्तस्य वशिसिष्ठस्य महात्मनः।
समाधिरिति कोऽन्योऽस्ति शुभानुध्यानतस्तव॥३२॥
चामरग्राहिणी-- को अण्णो अय्यस्स गुरुचरणादो मादा-
पिअरो भादा[^1] मित्तं परं देवं[^2] अ । [कोऽन्य आर्यस्य
गुरुचरणान्माता पिता भ्राता मित्रं परं दैवं[^3] च।]
राजा-- मुग्धे तत् कस्मै कथनीयम्। निरुपाधिकरुणा-
शालिनो हि मयि गुरुचरणा:। शार्ङ्गरव किं
काचिदस्ति गुरुणामाज्ञप्ति:? अनुगृह्गीण्णीष्व माम्।
 
शार्ङ्गरव:-- अद्य तव दिव्यजनदर्शनसम्भाषणादि भावेष्यति।तच्च
शुभोदर्कं भविष्यतीत्येतावती गुरुणामाज्ञप्ति:।
 
[^1]T2- भावा
[^2]T.C.- देवअं
[^3]T.C – दैवतं