This page has not been fully proofread.

(कुमुद: अयमेव समय इति कुमुदतीं प्रदातुं करे गृह्णाति
राजा- (स्वयं त्वरमाणोऽपि धैर्यमवलम्ब्य) सर्पराज मा
त्वरस्व । प्रथमं विप्राय माढव्याय पद्मावती देया!
ततो युवराजाय कमलिनी। ततः कुमुद्धतीति क्रमो
मह्यं रोचते।
 
कुमुदः (स्वगतम्) अध्यउत्तस्य धीरतणं मह मन्दभावणी
करगहणंतराओं होदि। [आर्यपुत्रस्य धीरत्वं मम
मन्दभाग्यायाः करग्रहणान्तरायो भवति।]
( इति सवेदलज्वं तिष्ठति ।)
 
कुमुद्रः महतो मानसमुचितमेव गोचरपति ।
राजा - भगवत्यौ सागरिकानागरिके अर्थ वामवसरश्चिर
काङ्क्षितः संप्राप्तड । उत्थाय पाणिग्रहमहोत्सव -
मनुभवतम्! एतत्पाणिग्रहणत्रमप्सम्बन्धी कङ्कण
बन्धश्च प्रागेव युवाभ्यां युवयो: करे बद: । इतः
पाणिग्रहणमात्रमंवशिष्यते । तदारभ्यतां तावत् ।
सांग, नाग- ससंभ्रममुत्थाम कुमुद्रकुमुदतीभ्यामनुगते
सूक्ष्मदर्शिन्या पद्मावती हस्तं ग्राहयित्वा
I. M, TV, Tic. - गृहीत्वा
 
255