This page has been fully proofread once and needs a second look.

इतश्च--
वत्सानुजं कमलिनी दरमीलिताक्षी
पश्यत्यनुक्षणमुदञ्चितमञ्जुहासा।
पद्मावती च पतिमेव निरीक्षमाणा
तत्प्रत्यवेक्षणदशास्वपि सा तथैव॥२६॥
 
परस्त्रियो न वीक्षार्हा इति व्यावर्तितेक्षण:।
स्वं विवाहमजानातो[^1] लवः स्वाग्रजमीक्षते॥२७॥
 
कुमुद:-- एषा मे परमा विज्ञप्तिः।
 
मम प्रमाददोषेण नष्टा: केचन बान्धवाः।
ये गतास्ते गता एव शिष्टा रक्ष्या वयं त्वया॥२७॥
(राजा नागरिकामवेक्षते।)
 
नाग-- (अपवार्य) भो युवराज भो माढव्य स्वां स्वां(माया3)[^2]
उपसंहरतम्।
(तौ क्षण ध्यात्वा तथा कुरुत:।)
 
[^1] M, T, T.c.- जानानो
[^2] This is the ensuggested reading. All mss. do not have
this word.