This page has not been fully proofread.

}
 
तवाभिलषितं सिद्धमेवा क्षणं विलम्बस्व युवराज-
माढव्ययी : कमलिनी पद्मावतीदाने निर्वृत्ते मयापि
कुमुद्वर्ती प्रतिगृह्यते । (प्रकाशम्) न भेतव्यम् न भेत-
व्यम् । युवराजेन गरुडास्त्रमुपसंहृतम् । माढव्य.
सर्पयागच निवर्तितः ।
 
सर्वे - महाराजदर्शनेनैव जीविता स्म: । (इति प्रणमन्ति)
राजा- सर्वेषामभ्यं दत्तमेव !
 
नाग- (समन्तादवलोक्य) किमिदम भये दत्तेऽपि नाग-
कान्ताः पलायन्ते ।
 
साग (सहासम्) केवलनारोपितशरासनं भुवराजं कृष्णा-
जिनघर माव्यं च दृष्ट्वा भीता एता: ।
 
4
 
राजा - निसर्गमुग्धा हि स्त्रीजाति: । वत्स लव चापमव-
रोपय । माढव्य त्वमजिनं परिहत्य क्षौम परिधेहि
(उभौ तथा कुरुतः1)
 
( कुमुदः उपसृत्य नमश्चिकीर्षति)
साग - कुमुद त्वया हि कन्या प्रदास्यते तदनुचितं माँ
 
2. T2- कक्षौ मम for क्षौम
 
2.T.. omits मा
 
250