This page has not been fully proofread.

नाग-(स्वगतम्) क्रिमितः सर्वविज्ञातस्य संवरणेन (प्रकाशम्)
किमजानन्निव पृच्छसि । अन्य कुमुदत कुमुदः शङ्ख
पालाय दास्यति । वत्सश्च तामेव ध्यायन्नास्ते । तदद्य
तस्याः शङ्खपालाय दानं विघटनीयम् तदर्थ च
मया पूर्वेयुरेव रात्रिं सर्वामपि सामादयस्त्रयोऽप्यु -
पाया: कुमुदं प्रति प्रसञ्जिताः! सच बन्धुसम्बन्ध-
कुतूहलात तान् नानुमन्यते । इतस्तेषां चतुर्थोडव-
शिष्यते । तत्र च वत्सो महापुरुषतमा पितृकारितदार-
परिग्रहस्थापि में स्त्र्यन्तर काम नेत्येव लज्जमानः
स्वयं न व्याप्रियते । तामेव ध्यायति च। तदस्माभि-
रेख समीकर्तव्योऽयमर्थः ।
 
-
 
A
 
सुम अत्र च युवराज एव नः शरणम् ।
 
नाग- तथैव मम पूर्वमेव रोचते । सच पूर्वमेव प्रवृत्तस्तत्र
नास्माभिः प्रवर्तनीयः । किन्त्वेतावत्। वत्स लव
भीषय केवलं कुमुदं शङ्खयालपाणिग्रहणविद्याताम
न पुनरन्यत्' अनपराधि त्रैलोक्यम् !
लव: (सहासम्) कुमुद्धत्येकावशेष्यते । मा विचारं गमः।
 
2. All mss. have कारिता'
 
233