This page has been fully proofread once and needs a second look.

पञ्चमोऽङ्क:
 
(ततः प्रविशति क्रुद्धो लव:।)
लव:-- पातालं करतालतो बहिरिदं निष्का[^1]सयाम्युच्छवसन्
द्यामद्यैव निपातयामि नभसः क्ष्मामुत्क्षिपाम्योजसा।
दिक्पालान् युधि धावयामि निखिलानिन्द्रानिमानाशुगै-
रार्यस्यार्थितमप्रदाय वसतां क्षेमः[^2] कथं क्षाम्यताम्॥१॥
 
(ततः प्रविशति तदुक्तमाकर्णयन्तौ सुमन्त्रविदूषकौ।)
 
सुनन्त्रः-- (सविनयमुपसृत्य) वत्स तव कोऽयमकाण्डे कदाप्य-
दृष्टपूर्व: संरम्भ:।
 
लवः-- (तदुक्तनश्रुत्वैव तावप्यपश्यन्) अद्य लवस्य खरान्तक-
प्रसूतत्वं लोकाः प्रत्यक्षयन्तु।
 
सुम-- (लवस्य दृष्टिपथं गत्वा) वत्सनिरपराधिषु ते कुत
एवमारम्भ:।
 
लवः-- (सुमन्त्र इति ज्ञात्वा प्रणम्य क्रोधं लघूकृत्य) श्रूयतामत्र
कारणमभिधास्यामि। पूर्वेद्यु: सायं माढव्यो मया राजा
किं करोतीति पृष्ट: आसायमस्वस्थः शुद्धान्त एव स्थितः
 
[^1]T2- निष्कामगानि
[^2]M- मोक्षः