This page has not been fully proofread.

229
 
पञ्चमोऽङ्क
 
(ततः प्रविशति कुद्धी लवडा)
 
O
 
लव:- पातालं करतालतो बहिरिद निष्कासयाम्युचवसन्
व्यामद्यैव निपातयामि नभसः क्ष्मामुत्क्षिपाम्योजसा ।
दिक्पालान युधि धावयामि निखिला निन्द्रा निमानाशुगै
रार्थस्थार्थितमप्रदाय वसती क्षेमः कथं क्षाम्यताम् ॥१॥
(ततः प्रविशति तदुक्तमाकर्ण यन्तौ सुमन्त्रविदूषकौ ))
सुनन्त्रः- (सविनयमुपसृत्य) वत्स तव कोऽयमकाण्डे कदाप्य -
दृष्टपूर्व संरम्भः!
 
लवः
 
:- (तदुक्त नश्रुत्वैव तावप्यपश्यन्) अद्य लवस्य खरान्तक
प्रसूतत्वं लोकाः प्रत्यक्षयन्तु।
 
सुन-(लवस्य दृष्टिपथं गत्वा) वत्स निरपराधिक ते कुत
 
एवमारम्भः!
 
लवः (सुमन्त्र इति ज्ञांत्वा प्रणम्य क्रोधं लघुकृत्य) श्रूयतामत्र
कारणमभिधास्यानि । पूर्वेयुः सायं माठव्यो मया राजा
किं करोतीति पृढः आसायमस्वस्थः शुद्धान्त एव स्थितः
2. 12. निष्क्रामगानि 2. M. मोक्षः