This page has been fully proofread once and needs a second look.

शङ्ख-- शुकराज श्वः पाणिग्रहणमस्या यथा न विच्छिद्येत तथा क्रियताम्।
 
शुकः-- मैवं पामर इव भवान् कदापि वादीत्। नहि कस्यचित कर्म
मया निर्मीयते। किन्तु यदीयमेव मया[^*] क्रियते।
(कुमुद्वती पराची[^1] लज्जां नियमयति।)
 
साग-- शुकराज साधु प्रत्युत्तरं दत्तम्। अनेन हि त्वया कुमुदे सौहार्दसारो
दर्शितः येन तत्कार्यमेव स्वकार्यं व्यवहृतम्।
 
कुमुदः-- सन्तः खलु साप्तपदीनमेव सरव्यमाद्रियन्ते।
 
सिद्ध-- (स्वगतम् शुकवचनं कुमुद्वतीचेष्टामपि विचार्य)
अतिप्रसङ्गो भविष्यति। त्वरितं गन्तव्यम्। (प्रकाशम्) अनुष्ठानकालोऽनिवर्तते।
कुमु-- (तद्वचनमाकर्ण्य स्वगतम्) सच्चं एसा जिअमिसदि। णाहमेणं सुअरअं
मुंचामि। विणाणेज हि खणं[^3] वि ण जीविस्सं।( इति हस्तेन शुकं गृह्णति।)
 
[^1] All mss. read पराचीं लज्जां निगमयति।
[^2]T2- व्यवहितम्
[^3]M- सुखं for खणं
[^*] T2 omits from मया to कार्यमेव.