This page has been fully proofread once and needs a second look.


शङ्ख-- (स्वगतम्) मय्यस्या महान् मत्सरः[^1]।
 
साग-- (स्वगतम्) भ्रान्तिव्याजेन[^2] स्वहृदयमाविष्कृतं
कुमुद्धत्या। (प्रकाशम्) शङ्खपाल दिक्पालक्रमेण कुमुदं
महेन्द्रमुक्त्वा त्वां धर्मराजमाह कुमुद्वती। भ्रान्तावपि
क्रमस्फूर्तिरुत्सर्गः। किमुन्मत्तामालापयथ। भ्रान्ता हि
यत्किञ्चित् ब्रुवते। भिषज आनीयन्ताम्।
 
कुमुद:-- क: कोऽञ भो:। भिषज आहुयन्ताम्।
 
कञ्चुकी-- यदाज्ञापयति देव:। (इति निष्क्रम्य तैः सह
प्रविश्य) जयतु देवः। एते भिषजः।
 
कुमुदः भोभो वैद्याः अस्या धातुं परीक्ष्य चिकित्सा प्रवर्त्यताम्।
 
वैद्या:-- (अपवार्य)
प्रायः प्रभुगृहे नार्यः क्षीराज्यप्राय भोजनाः।
भजन्ति विविधान् रोगांस्त्यजन्ति भिषजां क्रमम्॥२॥
 
[^1]T2- सत्वर:
[^2]M- णाजेण