This page has not been fully proofread.

1
 
शङ्ख - (स्वगतम्) मध्यस्या महान् मत्सरः।
साग- (स्वगतम्) भ्रान्तिव्याजेन स्वहृदयमाविष्कृतं
कुमुद्धत्या। (प्रकाशम् शङ्खपाल दिक्पालक्रमेण
कुमुदं महेन्द्रमुक्त्वा त्वां धर्मराजमाह कुमुद्धती ।
भ्रान्तावपि क्रमस्फूर्तिरुत्सर्गः। किमुन्मत्तामाला -
पयथा भ्रान्ता हि यत्किञ्चित ब्रुवते । भिषज
आनीयन्ताम् ।
 
कुमुद:- क कोडञ थो: । भिषन आह्यन्ताम् ।
कञ्चुकी- यदाज्ञापयति देव: । इति निष्क्रम्य तैः सह
प्रविश्य) जयतु देवः पते भिषजः।
 
कुमुदः भोभो वैद्याः अस्या धातुं परीक्ष्य चिकित्सा
प्रवर्त्यताम् ।
 
वैद्या :- (अपवार्य)
 
प्रायः प्रभुगृहे नार्यः क्षीराज्यप्राय भोजनाः ।
भजन्ति विविधान रोगांस्त्यजन्ति भिषजांक्रमम् ॥ २॥
 
2. M - णाजेण.
 
1. T20 सत्वर :
 
203