This page has not been fully proofread.

अवसरो नास्ति! कञ्चुकी ताज्यति । गच्छावः।
सागरिका नागलोकात प्रस्थिता । सा आगत्य सर्वं ते
कथमिष्यति ।
 
(इति निष्क्रान्ते कन्यके1)
नाग- कदा सागरिकाभ्येति कढा तस्था वचनं श्रोष्यामि .
कोऽयमुन्मादो नाम कुमुइत्या ? उन्मत्तांविवाहश्च
निषिद्ध : वत्सश्च न संमन्यते । ततश्च तस्य
मनोरथो भग्नः । न कस्याप्युन्मत्तया व्यवहारो ऽस्ति !
उन्मादो हि निवृत्तोऽपि चिकित्साभिः शरीरिणाम्।
न निवर्तेत निःशेष लेशतस्त्वनुवर्तते ॥ १॥
कथं प्रभातमद्य । (पुरोडवलोक्य) आगतैव
सागरिका ।
 
(प्रविश्य)
 
साग-(उरसि हस्ते निधाय) नागरिक कियत्ते मुखे वैवर्ण्यम्
अपि वत्सस्य कुशलम्?
नाग- कथं वत्सस्य कुशलं कुमुदत्या उन्मादे ।
साग- कुतः श्रुतोऽयं कुमुवत्या उन्माद : ?
1. T2- णंति
 
2.M, T.c omit नागरिक
 
191