This page has not been fully proofread.

राजा - नागरिक किं फणावत्यै वक्तव्यं सर्वमादिष्टम्?
नाग- तंव कुमुद्धतीसन्देशसमातिरप्यस्ति ? विस्मृत-
• मंश मदनो वदिष्यति ।
 
( नेपथ्ये वैतालिक: )
 
वैतालिक:- अस्ताचल व्रजति सम्प्रति लोकबन्धुः
: सन्तो भजन्ति निजकर्मकृते सरांसि ।
सिंहा विशन्ति शयितुं गिरिगह्वराणि
राजन्नृसिंह नगरं त्वमपि प्रयाहि ॥ २३॥
राजा- (आकर्ण्य) अहो फणावतीवाक्यश्रवणकुत्-
हलादविदितपरिणामो गतो दिवसः सक्लोऽपि ।
तद्गन्तव्यमस्माभिः ।
 
( इति निष्क्रान्ता: सर्वे)
॥ तृतीयोऽङ्कः ॥
 
195