This page has been fully proofread once and needs a second look.

त्ति मह कण्णपूरए[^1] केद[^2]अदळे णहळेहणीए किं वि
आळिहिअ अध्यउत्तसंदे सोत्ति मे कण्णे एव्व धारिअं। किं
ळिहिअं ण आणे। भवं एण्व पुल्लोष्दुळोएद। [इयं संदेशपत्रिका।
प्रत्यक्षेण पत्रिका नानेतुं शक्या। कञ्चुकी हि शोधयति।
ततो भर्तृदारिकया स्वबुद्धिकौशलेन स्फुटधारितं कञ्चुकी
न शोधयतीति मम कर्णपुरके कैतकदले नखलेखन्या
किमप्यालिख्य आर्यपुत्रसन्देश इति मे कर्ण एव धारितम्।
किं लिखितं न जाने। भवानेव पश्यतु।
 
राजा-- (तत् कैतकदलमुद्धाट्य तत्र वर्णान् निर्वर्ण्य) अहो
लेखिनीं विनैव कुमुद्वत्या नखेन लेखनचातुर्यम्।
 
म्रदीयः कैतक पत्रं नखरं च खराञ्चलम्।
कथं पत्रानुगुण्येन विन्यस्ता वर्णराजयः॥२६॥
 
अथ च स्पष्टमेव वाचनीया वर्णाः। आकारसदृशी प्रज्ञेति हि
सामुद्रिका[^3] आचक्षते। (सानन्दंसंस्कृतमाश्रित्य वाचयति।)
 
एति जीवन्तमित्येषा गाथा सद्भिरुदीर्यते।
तत्प्रमाणात्तदावाभ्यां प्राणा रक्ष्या: कथञ्चन॥१७॥इति।
 
[^1]T1,T2- कण्णपूर
[^2]M- कैद अदळे
[^3]T2 adds विद