This page has been fully proofread once and needs a second look.

णिस्सासू[^1]सासमेत्तसेसा। अय्यउत्तो जीवदि[^2] वा[^3]
ण वेत्ति वि आरिअ मं उपेहित्ति मं पेसिदवसौ अहं अ
हारगवेसणववदेसेण शंखपाळाणुमदा कहं वि णिग्गदा।
[अस्माकं भर्तृदारिका युष्माकं चिन्तासन्तापेन निःश्वासो-
च्छवासमात्रशेषा। आर्यपुत्रो जीवति वा न वेति विचार्य
मामुपेहीति मां प्रेषितवती। अहं च हारगवेषणव्यपदेशेन
शङ्खपालानुमता कथमपि निर्गता।]
 
नाग-- तेन कुमुद्वतीहारेणैव वत्सोऽद्य सञ्जीवितः।
 
फणा-- (सानन्दम्) कहं हारो ळध्दो कहं अ तेण महाराओ
जीविओ। [कथं हारो लब्धः कथं च तेन महाराजो
जीवित:।]
 
नाग-- सर्वमिदं दैवकारितम् यत् कुमुद्वत्या हारविस्मरणं
या च तस्य सागरिकाद्वारा मत्करप्राप्ति: यच्च गवेषमन्तीं
त्वां प्रति तध्दोपनं यच्च कालेन वत्साय तस्य दानम्। स
हार एव हि कुमुद्वत्याः
 
[^1]M- निस्सासोच्छासमात्तसेसा
[^2]T1,T2- जीवइ
[^3] T₁, T₂ omit वा
[^4]M- पेरिसवई