This page has been fully proofread once and needs a second look.

<bold>प्रकरणस्य प्रयोजनादिसमर्थनम्<bold>
 
(म. टि.) प्रतिपादकत्वात् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम्! [^1] वेदार्थ-
निर्णायकन्यायव्युत्पादकत्वादित्याह ॥ तदुपकरणेति ॥ .
 
<bold>मायावाद्यभिमतविषयादिनिरूपणम्<bold>
 
(टी.) अपरे तु स्वतः [^2] परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञा-
<error>नैकनिवर्हणीय</error> <fix>नैकनिबर्हणीय</fix> इत्यतोऽस्यानर्थहेतोः <error>ग्रहाणाय</error> <fix>प्रहाणाय</fix>आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।
तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।
 
(मं. टि.) वेदान्तानां विषयादितत्वनिर्णयार्थं चैतत्प्रकरणम् । किं [^3] विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्कय
<error>अस्तीत्या</error> <fix>अस्तीत्याह</fix>॥ अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह
॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते। [^4] आत्मैकत्वविद्याया: प्रयोजनमाह ॥ अनर्थोऽद्वै-
तज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्ति-
शब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अन-
<error>र्थोऽद्वैतज्ञानकनिबर्हणीय</error> <fix>र्थोऽद्वैतज्ञानैकनिबर्हणीय</fix> इति ॥ इत्यनर्थनिबर्हणार्थमिति शेषः । अनर्थस्याद्वैतज्ञाननिवर्त्यत्वे हेतुमाह
॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्द: कारणमात्र
वाची तद्विशेषोपादाने <flag>पर्यवस्यनीति</flag> द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः
<error>परमात्माभित्रे</error> <fix>परमात्माभिन्ने</fix> जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्य-
सहत्वमनर्थस्य भूषणं । प्रतीतिमात्रं तु प्रत्यक्षसिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्रनिवर्तक-
त्वान्न दुःखादिनिवर्तकत्वं, तत्राह ॥ अस्य <error>ग्रहाणायेति</error> <fix>प्रहाणायेति</fix>॥ अस्येत्यज्ञानस्येत्यर्थः । <error>साक्षादन निवृत्तिहेतुत्वा</error> <fix>साक्षादनर्थनिवृत्तिहेतुत्वा</fix> -
भावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्वविद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थनिवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थ-
हेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेयनिवृत्तिहेतुत्वं सुप्रसिद्धमिति भाव ।
 
<bold>मङ्गलाचरणम्<bold>
 
(टी.) तमेतं शास्त्रस्य पराभिमतमधिकारिविषयप्रयोजनसम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं
प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थनारूपमादितो मङ्गलमाचरति ।
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥
 
अगण्यगुणानां नित्यैकनिलया सदा मुख्याश्रया आकृति: मूर्तिर्यस्यासौ तथोक्तः । प्रीयतां
अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वात् इदं नोक्तम् । अत्राऽद्य विशेषणद्वयं स्तुत्यर्थमपि
 
[^1] वेदान्तार्थ.
[^2] श्री. परब्रह्मभूतस्य.
[^3] विषयाद्याभासप्रसक्तिरित्याशङ्कय.
[^4] यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । आत्मैकत्वविद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय
इति ॥ अनर्थनिबर्हणार्थमिति शेषः ।