This page does not need to be proofread.

श्रीजयतीर्थाः
 
माध्वग्रन्थान् स्वबन्धूनिव सरसहृदाऽऽलिङ्गय विज्ञातभावः
संयोज्यालङ्कृताभिः स्वसहजमतिसम्भूतवाग्भिर्वधूभिः ।
कृत्वाऽन्योक्तीश्च दासीर्बुधहृदयगृहं प्रौढवृत्तीश्च वृत्ती
र्दत्वाऽन्योन्याभियोगं जयमुनिरसकृद्वीक्ष्य रेमे कृतार्थः ॥