This page has been fully proofread once and needs a second look.

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।
इन्दिरापतये नित्यानन्दभोजनदायिने ॥ २० ॥
 
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु तृतीयं उपाधिखण्डनं सम्पूर्णम्
 
(टी.) आत्मसादृश्यद इत्युक्तं । न चायं पुरुषार्थः, इत्येतत्परिहाराय आद्यं विशेषणं । नानन्दः
स्वरूपेण पुरुषार्थः इत्यतो नित्यानन्देति विशेषणं । भोजनं भोगः अनुभव इति यावत् ।
 
(मं टि.) ॥ समापितप्रकरणोऽपीति ॥ प्रकरणस्य समापितत्वात् प्रणामादेर्निर्विघ्नपरिसमाप्तिलक्षणप्रयोज
नामावेऽपि भक्तिवशात् प्रणमति अभिष्टौति चेति अपिशब्दार्थः । आनन्दस्वरूपस्य परमेश्वरस्य सादृश्येन अधि-
कारिणः किंप्रयोजनं ? आनन्दानुभवाभावदित्यत आह ॥ नित्यानन्देति ॥
 
(टी.) सदा सुरशिरोरत्नप्रभामोषिनखत्विषि ।
कमलाकमितुः पादयुगले रतिरस्तु मे ॥
 
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वप्रकाशिकाविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं <error>संपूर्ण</error> <fix>संपूर्णं</fix>॥
 
(मं. टि.) एवं परिसमापिततत्वप्रकाशिकाव्याख्यो भगवांष्टीकाकारः एतादृशटीकाकरणस्य अन्ततो नारा-
<flag>यणीतिः</flag> प्रयोजनमिति ज्ञापयन् तत्प्रीतिं प्रार्थयते ॥ सदा सुरेति ॥
 
हयग्रीवपदाम्भोजनखदीधितिचन्द्रिकां ।
मनश्चकोर संसारसन्तप्त सततं पिब ॥
 
इति श्रीमत्समस्तदेवतामस्तकमणिकिरणारुणितपादारविन्दस्य अरविन्दनेत्रस्य श्रीमुख्यप्राणहृदयां-
रविन्दराजहंसस्य सज्जनकुमुदचन्द्रस्य श्रीलक्ष्मीनिवासस्य श्रीहयग्रीवस्य किङ्करेण श्रीम-
त्परमहंसपारिव्राजकाचार्याणां ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीलक्ष्मीनारा-
यणतीर्थाख्यात् यतिकुलतिलकात् अधीतश्रीमध्वशास्त्रामृतेन श्रीव्यास-
यतिना विरचिता मन्दारमञ्जरी तत्वप्रकाशिकाव्याख्याटिप्पणी सम्पूर्णा
 
-