2023-02-27 09:35:16 by Padmanābha
This page has been fully proofread once and needs a second look.
<bold>मन्दारमञ्जर्या स्वरूपतोऽनादित्वपरिष्कार:<bold>
(मं. टि.) स्वप्रागभाव: प्रसिद्ध : ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः । द्वितीये त्वसम्भवः ।
[^1] स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । [^2] नापि द्वितीय: । घटस्यापि पटप्रागभावाप्रतियोगि-
नोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं <error>कार्यवाची</error> <fix>कात्स्न्र्यवाची </fix>? किंवा सामान्यवाची ? नाद्यः । घटस्याऽपि
[^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादिप्रागभावप्रतियोगी । न द्वितीयः । आका-
शादिप्रतियोगिकप्रागभावस्याप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयो: [^4] सामान्याभावात् । एवमेव कारणशून्य-
त्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।
घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।
आरोप्य बुद्धिपूर्वं सा गगनादौ निषिद्धयते ॥
स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु 'स्वप्रागभावाप्रसिद्धौ [^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्य-
सिद्धः' इति तत्र किं 'प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात्' इत्यर्थो विवक्षितः ? । किं वा 'प्रतियोगिनोऽसत्वे
तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकमभावज्ञानं च न स्यात् इति ? । नाद्यः । <error>प्रागभावप्रध्वंसयो</error> <fix>प्रागभावप्रध्वंसयोः</fix> प्रतियोगि
सत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवा-
पेक्षते । प्रकृते च स्वप्रागभावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । [^6] <error>घटरादौ</error> <fix>घटादौ</fix>
प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च
बुद्धिपूर्वकारोप एव । 'इह भूतले घटो नास्ति' इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्वक-
मारोप्य निषेधे एतद्भुतलस्य घटाभावः सिद्धयति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य
गगनादौ बुद्धि पूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ
स्वप्रागभावप्रतियोगित्वस्य दर्शनात् 'गगनं स्वप्रागभावप्रतियोगि वस्तुत्वात् घटवत्' <error>इत्याद्यनुमानाभासैगगनादेः</error> <fix>इत्याद्यनुमानाभार्सैगगनादेः</fix>
स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्धयत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्या-
दीन्यनादित्वलक्षणान्यूह्यानि । एवमेव [^7] प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि [^8] समर्थनीयानीति दिक् ।
<bold>प्रवाहतोऽनादित्वपरिष्कारः<bold>
[^9] नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थ: ? प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो
भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरारभ्यते ? उत [^10] ज्ञाप्यते ? आद्ये कथमयमनादि: स्यात् ?
[^1] प्रागभावाप्रसिद्धौ.
[^2] न द्वितीय:
[^3] कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वप्रसङ्गात्.
[^4] सामान्यस्याभावात्.
[^5] स्वप्रागभावप्रतियोगित्वाभावोऽप्यप्रसिद्ध इति.
[^6] इत आरभ्य अथवा इत्यन्तो भागो मुद्रितपुस्तके नास्ति.
[^7] ध्वंसाप्रतियोगित्वं.
[^8] समर्थनीयानि.
[^9] तथापि.
[^10] ज्ञायते.