2022-08-26 16:32:34 by anusharao
This page has been fully proofread once and needs a second look.
३१२
उपाधिखण्डने
इति कर्त्रर्थे ल्युटः स्मरणात् कर्तरि ल्युट् । रमारमणस्यैव नम्यत्वे हेतुमाह ॥ गुणमाणिक्येति ॥ गुणा एव
माणिक्यानि तेषां मण्डनमित्यर्थः ॥ तत्वप्रकाशिकाव्याख्यामिति ॥ ब्रह्ममीमांसासहितवेदान्तविषयादितत्व-
प्रकाशिकाव्याख्यामित्यर्थः । करिष्याम इति परसमवेतक्रियाफलाभिधायिना परस्मैपदेन शिष्यानुजिघृक्षया ग्रन्थो निर्मीयत इति सूचयति ।
अवतरणिका
(टी.) परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मकस्यापि जीवस्य अनाद्यविद्या कामकर्मादि-
निमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृते अपगच्छति । न च असाक्षा-
त्कृतोऽसौ प्रसीदति । न च अविदितस्वरूपः शक्यते साक्षात्कर्तुम् इति सकलगुणाकरतया निश्शेष-
दोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति
परमार्थः ।
(मं. टि.) ननु किमर्थमिदं प्रकरणमारभ्यते भगवत्पादैः ? न च वेदान्तानां समीमांसानां विषयप्रयोजनादि-
स्वरूपनिर्णयार्थमारभ्यते, तन्निर्णयश्च वेदान्तादौ जिज्ञासूनां प्रवृत्त्यर्थः, प्रवृत्तिश्च ज्ञानसम्पादनद्वारा मोक्षपर्यवसायिनीति वाच्यम् । मोक्षस्य ईश्वरप्रसादैकसाध्यत्वेन ज्ञानानपेक्षणादित्याशङ्क्याह ॥ परमात्मन इत्यादिना न चासाक्षात्कृतोऽसौ प्रसीदतीत्यन्तेन ग्रन्थेन ॥ जीवस्य दुःखाद्यनर्थः परमेश्वरप्रसादादृते नापगच्छतीति सम्बन्धः ।ननु दुःखादेरानन्दादिवदनिवृत्तिः किं न स्यात् ? इत्यत आह ॥ अन्यथाकार इति ॥ आनन्दादिवन्न स्वाभाविकत्वं [^1] अन्तःकरणधर्मत्वाद्दुःखादीनामिति भावः । तर्हि मायिमत इव दुःखादीनां मिथ्यात्वं स्यादिति । नेत्याह ॥ [^2]परमार्थत इति ॥ दुःखादीनां स्वरूपेण [^3]अन्तःकरणे परमार्थत्वात् तदनुसन्धातृत्वस्य दुःखित्वस्य जीवे परमार्थत्वान्न कस्यापि मिथ्यात्वमित्यर्थः । ननु तस्यानर्थस्यानिमित्तकत्वे स्वरूपानन्दादिवत्स्वाभाविकत्वं स्यात् । सनिमित्तकत्वे च निमित्तस्यापि निमित्तान्तरापेक्षायामनवस्था स्यादित्यत आह ॥ अनाद्यविद्याकामकर्मेति ॥ सनिमित्तकत्वेऽपि निमित्तस्यानादित्वान्नानवस्थेत्यर्थः । अविद्या भावरूपाज्ञानम् । कामो रागः । कर्म काम्यादिकर्म । अविद्यायाः स्वरूपेणानादित्वम् इतरयोस्तु प्रवाहत इति द्रष्टव्यम् ।
स्वरूपतोऽनादित्वपरिष्कार:
ननु किमिदमनादित्वं नाम । किं प्रागभावाप्रतियोगित्वं ? किं वा कारणशून्यत्वं ? आद्येऽपि किं
स्वप्रागभावाप्रतियोगित्वं ? अन्यप्रागभावाप्रतियोगित्वं वा ? प्रागभावमात्राप्रतियोगित्वं वा ? आद्येऽपि किं
[^1]आगन्तुकत्वाद्दुःखादीनामिति भावः ।
[^2 ]परमार्थ इति ॥
[^3] अन्तःकरणपरिणामत्वेन परमार्थत्वात् तदनुसन्धातृत्वस्य च