This page has been fully proofread twice.

श्रीरीः
 
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
 
दशप्रकरणेषु
 
<error>तृतीयं </error> <fix>तृतीयम्</fix> <error>उपाधि खण्डनम्</error> <fix>उपाधिखण्डनम्</fix>
 
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
 
टीका
 
रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।
तत्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥

 
अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः
मन्दारमञ्जरी टिप्पणी प्रारभ्यते
 
हरिः ॐ
 
[^1]लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।
प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥
श्रीमदानन्दतीर्थार्यचरणाम्बुरुहद्वयम् ।
शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥
जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरुरूनपि ।
तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥
 
प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनकमविगीतशिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं
मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्'
 
 
[^1] 'कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिका<flag>व्य ख्यां</flag> <fix>व्याख्यां</fix> करिष्यामो यथामति ॥ १ ॥
स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभौभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥
मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ <fix>'</fix>नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः ।
अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थकर्तृकायाः स्वकर्तृकत्वाभावेन प्रथमश्लोकोत्तरार्धस्यानुपपन्नत्वात् ।