2023-04-12 04:24:39 by ambuda-bot
This page has not been fully proofread.
स्तबक: ४ ]
काव्यकल्पलतावृत्तिः ।
बिलसमान इत्यत्र वह्वेकवचनोद्भवः ॥६८ ॥
वर्णादीनामभङ्गे तु राजा मृदुकरस्थितिः ।
संसारसारमर्थेक्ये संस्कृतप्राकृतोद्भवः ॥ १९ ॥
यमकोपायमाह -
समानस्वरवर्णानुप्रासतः श्लेषतस्तथा ।
स्याद्वर्णपदपादानामावृत्या यमकं द्रुतम् ॥ १० ॥
अनुप्रासश्लेषोपायाः पूर्वोक्ता एव ।
हेलाविडम्बित हिरण्मयरत्नशृङ्गाः शृङ्गारभाडररुचः सहचारिकान्ताः ।
कान्तारभूवसतयोऽत्र चरन्ति सारं सारङ्गचञ्चलहशो मरुतां महेलाः ॥
भवति वृद्धिकृते कमलागमो जिनमतो न मतो नमतो मम ।
न रतिदाऽमरभूरुहकामधुक् सरमणीरमणीरमणीयता ॥
वनस्यान्तर्लसत्यत्र रतिभूतरुचारुणः ।
सुरौधः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥
वक्रोक्तिविरोधाभासप्रश्नोत्तर पुनरुताभासा अपि श्लेषसाध्याः । यथा -
तरणि पश्य सश्रोणि ! नाथ ! कुत्रास्ति नौरिह ।
सवितारं प्रिये वच्मि प्रिय ! दूरेऽधुना पिता ॥
भात्येष मेरुरुचिरोऽपि नमेरुशोभी कृत्स्नामिलामपि वहन्ननिलाभिरामः ।
सव्यालवालमपि चन्दनपादपानां नव्यालवालमभितो वहते समूहम् ॥
मूर्ध्ना वहन्ति के कुम्भौ मुग्धा लिष्टा ब्रवीति किम् ।
क्रियते कुजरास्यस्य किमु सम्बोधनं बुधैः ॥
गजानन ।
प्रद्योतनोऽम्बुजानां सविता महसां विकर्तनस्तमसाम् ।
निखिलजगच्चक्षुरसावम्बररत्नं रविर्जयति ॥
इति श्रीजिन० श्लेषसिद्धिप्रताने तृतीय अद्भुतस्तबकश्चतुर्थः ॥
८५
अथ चित्रप्रपञ्चः ।
स्यात् स्वरव्यञ्जनस्थानगत्याकारनियन्त्ररत ।
व्युतमृढादि वा चित्रे च्युतं तत्र चतुर्विधम् ॥ १०१ ॥
मात्रार्धमात्रयोर्बिन्दुवर्णयोश्च्यवनान्मतम् ।
क्रियाकारकसम्बन्धपादैर्गुढं चतुर्विधम् ॥१०२॥
स्वरादीनां नियन्त्रणानियमः स्वरचित्रम् । यथा - जय सकलनयकलन जय मदन.
मैदलन जय कमलकरचरण जय सभयजनशरण । हस्वैकस्वरम् । एवं दीर्घकस्वरवि
झ्यादिस्वरनियमो ज्ञेयः । एकस्वरादिशब्दाः सप्राप्या इति न दर्शिताः ॥