This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
इकारोकारौ सम्बोधनप्रथमैकवचनेन यवलोपिस्वरे शिलश्लिष्टौ भवतः । यथा कट

इह । कटि कटु ॥
 

 
श्रो डौ
 
८४
 
ओ ङौ
 
इकारौकारौ सप्म्येकवचनेन यवलोपिस्वरे श्लिष्टौ भवतः । यथा - सदाशनौरतः

 
क्लीबवृत्तित्त्वे ई इवत्
 
-
 

 
ईकारान्ताः कीक्लीबविशेषणत्वेन इकारान्ताः क्रियन्ते, तत इवत् सर्वस्वरैः श्लेषः ।

इकारोकारेण यथा - --स्वीकृतपटौ मित्रे प्रीताः । शब्दा यथा - --( तनी अपटी कटी वटी

सदावटी तरी चरी करी चारी वारी दारी, उकारेण तनी तनू भी भू ) प्रभृतयः ॥

 
तद्धिया उऊ ।
 

 
तस्य ईकारस्य वीधीस्तद्वीधीस्तया ऊकारान्ताः क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते,

तत उविधिना सर्वस्वरैः श्रेलेषः । उकारान्तौ च्चिविप्रत्ययेन वा श्लिष्टौ । तन्दूकटू प्रभृतयः ॥
श्र

 
म्प्रयोगादनुस्वारः
 

 
-
 

 
द्वितीयैकत्रचनेनाऽनुस्वारश्लेषो भवति । यथा - अधिकं बलं वहन्, रुचिरांगणश्रियं

बिभ्रत्, पुरोगांगेयरुचिं दधत् ॥

 
विसर्गः श्रीसमैः पुरः ॥ ९३ ॥

 
श्रीस्थितिप्रायैः पदैः पुरस्थैर्विसर्गश्लेषो भवति । यथा -- --परागश्रीः, महस्थितिः ॥

स्यादि-त्यादिविभक्तिश्लेषो, भाषाश्लेषः, प्रकृतिश्लेषोऽपि भङ्गश्लेषोपायेन साध्यः ।

विभक्तिश्लेषो यथा भवति । पक्षे - --भवति रोहितः । पक्षे - --भवेन तिरोहितः । स्यादिपक्षे

विभक्तीनामलोपः समासेन लोपो वा क्रियते । भवतः । स्यादिपक्षे तव शिवतो वा ।

एवं सर्वत्र ज्ञेयम् । भवन्तिरोहिताः । भवसितत्त्वश्रीः। भवामिततश्रीः । भवावस्थित्या ।

राजतिरोहितेत्यादि ।
 
P
 

 
भाषाश्लेषो यथा- -किम्पि केवलं पुरवञ्चन कलिआ नाघोधो कधम् । अर्थैक्ये भाषा-

श्
लेषे समसंस्कृतप्राकृतादिशब्दाः प्राकृतलक्षणेन ज्ञेयाः । यथासुरभयह रिण नरकुले.
-
त्यादयः ।
 

 
प्रकृतिश्लेषो महःस्थित्यादयः । एवमष्टविधोऽपि श्लेषः प्रपञ्चितः ॥

 
श्
लेषभेदो यथा -
 
--
 
वर्णभाषालिङ्गपद्प्रकृतिप्रत्ययैस्तथा ।
 

विभक्तिवचनाभ्यां च श्लेषः सञ्जायतेऽष्टधा ॥

 
कल्पवर्योऽत्र भङ्गोऽभूदाकारेकारवर्णयोः ।

स्वर्गला भविभाऽशोभी पद्मदभङ्गसमुद्भवः ॥ ९५

 
लिङ्गश्लेषे तनुर्नेत्रे बाह्या:याः कैरवराजिनी ।

हरउमे सुरमणो संस्कृतप्राकृतोद्भवः ॥ ६ ॥

 
दारिद्र्यकृद्रिपौ मित्रे कृकृत्प्रकृतिभङ्गतः ।

गौरीभूतगुणोपेत ई चिवच्विप्रत्ययभङ्गभूः ॥ ९७ ॥

 
त्वमत्रारचयश्चक्रे त्यादिस्यादिविभक्तिजः ।