This page has not been fully proofread.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
इकारोकारौ सम्बोधनप्रथमैकवचनेन यवलोपिस्वरे शिलष्टौ भवतः । यथा कट
इह । कटि कटु ॥
 
इश्रो डौ
 
८४
 
इकारौकारौ सप्लम्येकवचनेन यवलोपिस्वरे लिष्टौ भवतः । यथा - सदाशनौरतः
क्लीबवृत्तित्त्वे ई इवत्
 
-
 
ईकारान्ताः कीबविशेषणत्वेन इकारान्ताः क्रियन्ते, तत इवत् सर्वस्वरैः श्लेषः ।
इकारोकारेण यथा - स्वीकृतपटौ मित्रे प्रीताः । शब्दा यथा - ( तनी अपटी कटी वटी
सदावटी तरी चरी करी चारी वारी दारी, उकारेण तनी तनू भी भू ) प्रभृतयः ॥
तद्धिया उऊ ।
 
तस्य ईकारस्य वीस्तद्वीस्तया ऊकारान्ताः क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते,
तत उविधिना सर्वस्वरैः श्रेषः । उकारान्तौ च्चिप्रत्ययेन वा लिष्टौ । तन्दूकटू प्रभृतयः ॥
श्रम्प्रयोगादनुस्वारः
 

 
-
 
द्वितीयैकत्रचनेनाऽनुस्वारश्लेषो भवति । यथा - अधिकंबलं वहन, रुचिरांगणश्रियं
बिभ्रत्, पुरोगांगेयरुचिं दधत् ॥
विसर्गः श्रीसमैः पुरः ॥ ९३ ॥
श्रीस्थितिप्रायैः पदैः पुरस्थैर्विसर्गश्लेषो भवति । यथा -- परागश्रीः, महस्थितिः ॥
स्यादि-त्यादिविभक्तिश्लेषो, भाषाश्लेषः, प्रकृतिश्लेषोऽपि भङ्गश्लेषोपायेन साध्यः ।
विभक्तिश्लेषो यथा भवति । पक्षे - भवति रोहितः । पक्षे - भवेन तिरोहितः । स्यादिपक्षे
विभक्तीनामलोपः समासेन लोपो वा क्रियते । भवतः । स्यादिपक्षे तव शिवतो वा ।
एवं सर्वत्र ज्ञेयम् । भवन्तिरोहिताः । भवसितत्त्वश्रीः। भवामिततश्रीः । भवावस्थित्या ।
राजतिरोहितेत्यादि ।
 
P
 
भाषाश्लेषो यथा- किम्पि केवलं पुरवञ्चन कलिआ नाघो कधम् । अर्थैक्ये भाषा-
लेषे समसंस्कृतप्राकृतादिशब्दाः प्राकृतलक्षणेन ज्ञेयाः । यथा – सुरभयह रिण नरकुले.
त्यादयः ।
 
प्रकृतिश्लेषो महःस्थित्यादयः । एवमष्टविधोऽपि श्लेषः प्रपञ्चितः ॥
लेषभेदो यथा -
 
वर्णभाषालिङ्गपद्प्रकृतिप्रत्ययैस्तथा ।
 
विभक्तिवचनाभ्यां च श्लेषः सञ्जायतेऽष्टधा ॥१४॥
कल्पवर्योऽत्र भङ्गोऽभूदाकारेकारवर्णयोः ।
स्वर्गला भविभाऽशोभी पद्मङ्गसमुद्भवः ॥९५॥
लिङ्गश्लेषे तनुर्नेत्रे बाह्या: कैरवराजिनी ।
हरउमे सुरमणो संस्कृतप्राकृतोद्भवः ॥ १६ ॥
दारिकृद्रिपौ मित्रे कृकृत्प्रकृतिभङ्गतः ।
गौरीभूतगुणोपेत ई चिवप्रत्ययभङ्गभूः ॥ ९७ ॥
त्वमत्रारचयश्चक्रे त्यादिस्यादिविभक्तिजः ।