This page has been fully proofread once and needs a second look.

नयोधस्थितिरित्यादौ उकाराग्रे अकारः । कोयष्टिः कोदण्डः कोद्रवः उच्चक्रोधवत्स्थितिः
कोलसल्लक्ष्मीः पोगण्ड गोधन इत्यादौ उकाराग्रे घोषवन्तः । पुरोद्योतः, अधिकोपगतः
इत्यादौ जसिः । पक्षद्वयेऽपि समास उद्योताद्यैः ।
 
उलीलया अउ
 
अकारान्ता उकारान्ता यदा तदा पूर्वं क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते,
तत उविधिना श्लेषः । यथा--अत्यासन्नो रुचिरः स्वतुल्यः कुलस्योदयः । पक्षे अति-
क्रान्ता आ सामस्त्येन सन्नौर्येन कुलेन तत् अत्यासन्तु, तस्याऽत्यासन्नोः । एवं द्यौः ।
एवमन्येऽपि ॥
 
गौणत्वे आ अवत् ॥ ९० ॥
 
आकारान्ताः शब्दाः पूर्वमन्यविशेषणत्वेनाऽकारान्ताः क्रियन्ते, पश्चादकारविधिना
सर्वस्वरैः श्लेषः । इकारेण यथा--पुरे प्रचुरशाले रम्यता शरत्केदारस्येव । शालापक्षे
सप्तमी । शालिपक्षे पञ्चमी षष्टी वा । शब्दा यथा--(शाला सन्धा विनता प्रहेला हेला
बहुलाला परमहाला महाशीला मुक्ता कान्ता कलेत्यादयः) । इकारेण यथा--(घटा बहु-
लाला परमहाला सुरुचिज्वाला महाशाला) इत्यादयः । बहुलालीभूतः । उकारेण
यथा--(मन्या सूना कम्बा वला त्रपा अम्बा मृगयादयः) । धृतत्रपोरम्यः । ऊका-
रेण यथा--(भा प्रतिभा अधिभा पुनर्भा कच्छादयः) । अतिभोरम्यः प्रचारः । स्व-
वृत्त्यधिकवृन्दस्य ॥
 
च्विना आमि उसि स्वरे इई ।
 
इकारेकारौ च्विप्रत्ययेन तथा आम्उस्भ्यां तथा स्वरैश्च श्लिष्टौ भवतः । यथा--
सदावलीभूतः । सदावलीनां सदावल्लयोः सदावलयनुगतादयः । शब्दा यथा--(अवि
महाशालि अधिकालि प्रचुरालि नन्दि आलि मल्लिवलीत्यादयः) ॥
 
इउ ङौ
 
इकारोकारौ सप्तम्येकवचनेन श्लिष्टौ भवतः । यथा--विधौ प्रीतिः । शब्दा यथा--
(अणिहेति कटितरि सदारि शरारि उच्चारि सदाद्रिप्रभृतयः) ।
 
क्लीबवृत्तित्वे इऊ उविधिना तथा ॥ ९१ ॥
 
इकारोकारौ यदा क्लीबे तदा ऊकारान्ताः क्लीबविशेषणत्वेन उकारान्ताः क्रियन्ते, तत
उविधिना श्लेषः । द्वेधापि विशदवधो कुले ॥
 
इए ङसिङसौ रेफे
 
इकारैकारौ पञ्चमीषष्ठ्येकवचनेन पुरस्थरेफादिरम्यप्रमुखशब्देन श्लिष्टौ भवतः ।
यथा--सदासेरम्यः । एकारान्तशब्दानामभावात्सेशब्दः कल्पितः । इना सह वर्तत
इति सेः, सकाम इत्यर्थः । सदासेरभसाटोपः ॥
डौ य्वलोपिस्वरे इए ।
 
इकारैकारौ सप्तम्येकवचनेन यवलोपिस्वरे श्लिष्टौ भवतः । यथा--सदारा आटोपः
अरिरैः ॥
 
सम्बोधनसियोगेन यवलोपिस्वरे इऊ ॥ ९२ ॥