This page has been fully proofread once and needs a second look.

स्तबकः ४ ]
 
स्फुरितसुभाषितपालीनिहतप्रत्यूहसंशयं
ब्राह्म्या ।
मूर्तिक्रमौ महांसि प्रभवतमुदितं वरं दातुम् ॥
 
ब्राह्मया ।
 

 
एकत्वे प्रभवतिक्रियासमभिहारो, द्वित्वबहुत्वयोः पक्षे कर्तृपदसम्बोधनम् ।

रुचिराव सुप्रभाव दाव पाव विभाव हाव मञ्जुलावेत्यादीनां वान्तानामग्रे अनि
-
दायै:द्धायैः शब्दैर्महाद्भुतं काव्यं भवति । यथा-
widz.cocomm
 
-
 
सुप्रभावानिबद्धोद्यत्पुण्यभावानियोगतः ।

मूर्तिक्रमौ वचांसि श्रीजिनेन्दोर्जंजनतुष्टये ॥

 
अग्न्यन्तानामग्रे--ईरण उरसिकोपि उरूपभोगेत्यादिशब्दैर्महाद्भुतं काव्यं भवति ।
 

यथा-
काव्यकल्पलतावृत्तिः ।
 
-
 
वदनं पादौ वाचस्तव जिन ! सुरुचीरणाय दुरितानाम् ।

विमलतनू रसिकोऽपि स्मरति मृदूरूपभोगार्थम् ॥

 
अग्न्युपधसान्तैरग्न्यन्तैश्चार्थद्वयेऽपि घटमानैरग्रस्थरेफादिशब्दैमँर्महाद्भुतं भवति ।
 

यथा-
-
 
निहतजटायूवक्षस्कन्धौ विद्याश्च तर्जंय स्वमपि ।

अयमायातो रामः प्रभवतमुदितं रणं कर्तुम् ॥
 

 
जटायुशब्द:दः सान्त उकारान्तोऽप्यस्ति । रक्षोविशेषणे नपुंसकलिङ्गे प्रथमाया

एकवचनम् । स्कन्धयोर्विशेषणे द्वितीयाद्विवचनं पुल्लिङ्गे । स्त्रीलिङ्गे विधानां विशेषणे

द्वितीयाबहुवचनम् ।
 

 
वञ्चितादिशब्दपृष्ठे आकारान्ताः शब्दाः प्रयोज्या महाद्भुतं भवति ।

 
मुखाम्भोजं कुचौ क्रीडा सप्रभावञ्चितश्रिया ।

राधाया यमुनातीरे विष्णोः सुखसमृद्धये ॥
 

 
मुखाम्भोजं सप्रभावं, कुचौ सप्रभौ, अग्ने अञ्चितश्रिया, क्रीडा सप्रभा । रुचिरा-

वञ्चितश्रियावङ्ग - --इत्यादि ॥
 
-
 

 
ऊसाधितराजितसमपादाग्रगैरवमुखः शब्दैः ।
 

भवति तृतीयविभक्तिस्पष्टार्थैरद्भुतं काव्यम् ॥ ८५ ॥

 
ऊसा धितराजितादिपदानामग्रे स्थितैवेंर्वेणीविच किलवस्वात्रादिभिरवमुखैस्तृतीयाविभक्त्य-

न्तैः स्त्रीलिङ्गे प्रथमाया एकवचनेन पुंल्लिङ्गे प्रथमाद्विवचनेनाऽद्भुतं भवति । यथा -
 
--
 
हृद्यावलिविलासेन मध्यश्रीरि योषितः ।
 

कपोलाविव नागस्य श्रियं गाते भवद्भुजौ ॥
 
-
 

 

 
गाड् ङ् श्यैङ् गतौ । यथा - --वन प्रदेशाविव शोभितावेणी, विलासेन स्त्री । वनपक्षे

एणीशब्दः । स्त्रीपक्षे वेणीशब्दः । प्रावृण्मासाविव शोभिता विचकिलमालया स्त्री ।

राजप्रवेशे हट्टश्रेणीव शोभितावस्त्रमालाभिर्भटौ । शोमिभित राजित मण्डित घोतित-

इत्यादि, एषामग्रे वनमालिविनायकवदनादिशब्दाः पूर्वं लिखिताः योज्याः ।
 

 
स्त्रियामीकारान्तशब्दैः प्रथमाबहुत्वसाधितैरर्थे मिलति एकत्वबहुत्वयोः साम्यम् ।
 
--
 

यथा --पाल्य कल्य मालिन्य राज्य सुशोभनार्य सुशोभनबाल्य अधिकबर्यः सख्यः मत्यः

सत्यः विद्विदितवेद्य विशदवलभ्यः वार्यः सदर्य: दास्य सम्पन्नवारुण्य इत्यादि । तथा
 
--