This page has not been fully proofread.

भूमिका ।
 
कविकल्पलतांग्रन्थः प्रस्तुतप्रन्थादनन्तरं निर्माणपदवीमागत इति तत्वविदः ।
प्रस्तुतप्रन्थे अनुष्टुभः शासने पञ्चाक्षरोदाहरणे 'कुमारपाल भूपाल' इति पद्येन
त्रयोदशशताब्दीकस्य कुमारपालनाम्नो नृपालस्यापि समुल्लेखात् स एव
कालः समागच्छति । तथाच चतुर्दशशताब्दयाः पूर्वं त्रयोदशशताब्दी विक्रमीया
सूत्रवृत्तिकृतो: समय इति निर्विवादम् ।
 

 
.
 
M
 
-
 
प्रस्तुतपुस्तकस्यादर्शः - एतस्य पुस्तकस्य पूर्व वारद्वयं मुद्रणमभूत्
-
प्रथमं तावदस्मद्गुरुवरमहामहोपाध्याय श्री रामशास्त्रितैलङ्गसंशोधितं काश्यां
१८८६ ईशवीयवत्सरे प्रकाशितं, द्वितीयं पण्डितवामनशास्त्रि - इसलामपुरकर-
महाशयै: सानुवादं संशोधितं मोहमय्यां १८९१ ईशवीयेऽब्दे प्रकाशितम् । तत्र
महाराष्ट्रभाषानुवादमयं सवृत्तिसूत्रं द्वितीयं पुस्तकं नास्माकमादर्शोपयोगि, यत-
स्तत्र केवलमनुवादोन मूलग्रन्थः, परं तान्येव संस्कृतोदाहरणानि तथैव न्यस्तानि ।
अपिचैतत्पुस्तकं भूमिकालेखन समयेऽस्माकं दृष्टिगोचरतामुपगतम् । प्रथमं
पुतस्क मेवाऽस्माकमादर्शत्वेन पुरो वर्तते । वस्तुतस्तदेवाऽऽदर्शपुस्तकमादाय
प्रवृत्तमस्माभिरेतन्मुद्रणाय । मुद्रणारम्भे नातिशुद्धमपूर्ण चैकं हस्तलिखितं
पुस्तकमस्माभिः सुहृद्वरभारद्वाजश्रीगङ्गाधरशास्त्रिणां तत एवोपलब्धं ख० सङ्केतेन
व्यवहृतम् ।
 

 
उपसंहारः - इत्थं पुस्तकद्वयमवलम्ब्यापि मुद्रित पुस्तकमात्रसाहाय्येन
संशोधनं कृतम् । संशोधन कर्मणि गृहीतभारेणापि मया कार्यान्तरव्यप्रतया
मतिमान्द्येन वा यदशुद्ध्यादि कचिद् दूरीकर्तुं नाशक्यत, तत्राध्यापका अध्ये-
तारश्च मां क्षन्तुमर्हन्ति । भूमिका प्रकरणसूची - विषयसूची-कारिकानुक्रमणि
कोदाहरणपद्यसूची-शुद्धिपत्रादिभिः पुस्तकसंस्करणरूपेरण मदीयेन व्यापारेण
यदि केषाश्चिदपि कश्चिदप्युपकार: स्यात्तर्हि सफलपरिश्रममात्मानं मन्येय ।
यत्प्रसादादधिगतेन ज्ञानलवेनेदं कार्यं कर्तुं शक्तोऽहमभवं ते श्रीमद्गुरुवराणां
पूज्यपादाः सर्वदा मनसि निवसन्त्विति तान् सादरं स्मृत्वा मुद्रणाय प्रवर्तयित्रे
श्रेष्ठिजयकृष्णदासगुप्त महोदयायाऽऽशीभिरभिनन्द्य पुस्तकादिप्रदानसाहाय्यं
कुर्वद्भयः सुहृद्ररेभ्यः श्रीबटुकनाथशर्म एम्० ए०, खिस्ते श्रीनारायणशास्त्रि, -
भारद्वाजश्रीगङ्गाधरशास्त्रि, वेतालश्री अनन्तरामशास्त्रिभ्य: सस्नेहं शवशो
धन्यवादान् प्रदाय विरम्यते वृथापल्लवितादमुष्माल्लेखात् । आशास्यते च गुण-
कपक्षपातिनो विद्वांसो मां वर्धयिष्यन्त्याशीभिरिति शिवम् ।
 
काशी,
 
रथयात्रा सं० १९८८ }
 
विदुषामनुचर:-
होशिङ्गजगन्नाथशास्त्री ।
 
सूचना - पुस्तकस्य ७८ पृष्ठे २७ पंकौ पट्यताम्-
छिनाघवलीनिहताङ्गजन्मभल्लीनिबद्धो रुरूचीनिकामम् ।