This page has been fully proofread once and needs a second look.

अमरचन्द्रवतिकृता-
विश्वविस्तीर्णलक्ष्मीकः सकलाभोगभासुरः ।
समन्

समञ्
जुलवसल्लक्ष्मी रूमिंग र्मिमद्वैभवान्वितः
 

 
अथ क्रियादिशब्दाः-
यथा-
-
 
उच्चैस्तरलसल्लक्ष्मीः सुपीवश्वसद्द्युतिः ।

सम्पन्नव्याप्तलक्ष्मीकः परकोटिश्रिया युतः ॥

 
धामभावौ प्रभावश्च विभावश्च यथोचितम् ।

वर्णस्याकारशब्देभ्यः सम्प्रयोज्या मनीषिभिः ॥ ७६ ॥
 
९ ॥
 
यथा--
 
स्थूलधाममनोहारी गुरुभावचितस्थितिः ।

स्थूलप्रभावबद्ध श्रीरुच्चैर्विभवरोचितः
 
[ प्रतानः ३-

 
धामशब्देन देहस्तेजश्च ।
 

 
इति श्रीजिनदत्तसूरि० श्लेषसिद्धिप्रताने तृतीये उद्दिष्टवर्णनस्तबकस्तृतीयः ॥
 

-----------------------------
 
अथाऽद्भुतविधिः ।
 

 
 
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।

दृश्यते शब्दसादृश्यमिदमद्भुतमुच्यते ॥ ८० ॥
सि

 
णि
नन्तैः स्त्रीकृतैः शब्दैरोसि क्लीस्त्रियोः पुनः ।

तैरेव रेफपृष्ठस्थैः स्त्रीकर्मबहुता भवेत् ॥ ८१ ॥

 
णिन्प्रत्ययान्ताः शब्दा राजिनू आन् भ्राजिन् शाकिन्- -इत्याद्या:याः 'स्त्रीलिङ्गे नद्यन्ताः'

इति सूत्रेण ईप्रत्ययान्ता क्रियन्ते, तेषामग्रे रेफादिशब्दा रागरत्रप्रमुखाः प्रयोज्याः । एवं

नपुंसकलिङ्गे अप्रत्ययान्याः स्त्रीलिङ्गे सिप्रत्ययान्ता, णिनन्ताः शब्दा भवन्ति । यथा -
--
 
प्रभावराजनीरागोल्लासप्रध्वंसिनी स्यात् ।
 
रयात् ।
गीर्जिनस्य पदाब्जे च कुरुतां सुखसम्पदः ॥
 

 
वाणीविशेषणे सिः स्त्रियां, पदाब्जविशेषणे पुन्नपुंसके, मुखसम्पद्विशेषणे कर्मणि

स्त्रियां शस् ॥
 

 
विशेषण परिक्षिप्तैरग्भ्न्यन्तै, रेफपृष्ठगैः ।
 

द्विस्थ द्विपञ्चमीकर्म स्त्रीबहुत्वेऽद्भुताऽद्भुतम् ॥ ८२ ॥

 
अग्न्यतैः ऋकारान्तैरुकारान्तैः स्थितिपटुतुल्यैर्विशेषणवेष्टितैः क्षिप्तै रेफपृष्टस्यै
थै
रेफादिरागरसस्वरयमुखशब्दैः अद्भुताद्भुतं काव्यं भवति। परं विशेषं द्विस्थोभयपदधातो-
रमे

रग्रे
द्विपञ्चमीपञ्चम्याः परस्मैपदद्विवचनान्ताः आत्मनेपदैकवचनान्ताः कुरुतां तनुता-

मित्यादि । एवंविधक्रियायां कर्मणि स्त्रीलिङ्गबहुत्वयुक्तं विशेषणं क्रियते । यथा -
 
--
 
भवभेदपटू रागध्वान्तभानुस्थिती रयात् ।

प्रभोर्वचश्चयोऽघीङ्घ्री च कुरुतां वः शिवं श्रियः ॥