This page has not been fully proofread.

अमरचन्द्रवतिकृता-
विश्वविस्तीर्णलक्ष्मीकः सकलाभोगभाउरः ।
समन्जुलवसलक्ष्मी रूमिंग द्वैभवान्वितः
 
अथ क्रियादिशब्दाः-
यथा-
उच्चैस्तरलसलक्ष्मीः सुपीवश्वसद्द्युतिः ।
सम्पन्नव्यासलक्ष्मीकः परकोटिश्रिया युतः ॥
धामभावौ प्रभावश्च विभावश्च यथोचितम् ।
वर्णस्याकारशब्देभ्यः सम्प्रयोज्या मनीषिभिः ॥ ७६ ॥
 
स्थूलधाममनोहारी गुरुभावचितस्थितिः ।
स्थूलप्रभावबद्ध श्रीरुचैर्विभवरोचितः ।
 
[ प्रतानः ३-
धामशब्देन देहस्तेजश्च ।
 
इति श्रीजिनदत्तसूरि० श्लेषसिद्धिप्रताने तृतीये उद्दिष्टवर्णनस्तबकस्तृतीयः ॥
 
अथाऽद्भुतविधिः ।
 
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।
दृश्यते शब्दसादृश्यमिदमद्भुतमुच्यते ॥ ८० ॥
सिनन्तैः स्त्रीकृतैः शब्दैरोसि क्लीव स्त्रियोः पुनः ।
तैरेव रेफपृष्ठस्थैः स्त्रीकर्मयता भवेत् ॥ ८१ ॥
णिन्प्रत्ययान्ताः शब्दा राजिनू आजिन् शाकिन्- इत्याद्या: 'स्त्रीलिङ्गे नद्यन्ताः'
इति सूत्रेण ईप्रत्ययान्ता क्रियन्ते, तेषामग्रे रेफादिशब्दा रागरत्रप्रमुखाः प्रयोज्याः । एवं
नपुंसकलिङ्गे अप्रत्ययान्याः स्त्रीलिङ्गे सिप्रत्ययान्ता, णिनन्ताः शब्दा भवन्ति । यथा -
प्रभावराजनीरागोल्लासप्रध्वंसिनी स्यात् ।
 
गीर्जिनस्य पदाब्जे च कुरुतां सुखसम्पदः ॥
 
वाणीविशेषणे सिः स्त्रियां, पदाब्जविशेषणे पुन्नपुंसके, मुखसम्पद्विशेषणे कर्मणि
स्त्रियां शस् ॥
 
विशेषण परिक्षिप्तैरग्भ्यन्तै, रेफपृष्ठगैः ।
 
द्विस्थ द्विपञ्चमीकर्म स्त्रीबहुत्वेऽद्भुताऽद्भुतम् ॥ ८२ ॥
अग्न्यतैः ऋकारान्तैरुकारान्तैः स्थितिपटुतुल्यैर्विशेषणवेष्टितैः क्षिप्तै रेफपृष्टस्यै
रेफादिरागरसस्वरयमुखशब्दैः अद्भुताद्भुत काव्यं भवति। परं विशेषं द्विस्थोभयपदधातो-
रमे द्विपञ्चमीपञ्चम्याः परस्मैपदद्विवचनान्ताः आत्मनेपदैकवचनान्ताः कुरुतां तनुता-
मित्यादि । एवंविधक्रियायां कर्मणि स्त्रीलिङ्गबहुत्वयुक्तं विशेषणं क्रियते । यथा -
 
भवभेदपटू रागध्वान्तभानुस्थिती रयात् ।
प्रभोर्वचश्चयोऽघी च कुरुतां वः शिवं श्रियः ॥