This page has not been fully proofread.

स्तंबंक: ३ ]
 
स्पन्दन
 
काव्यकल्पलतावृत्तिः ।
 
वाहनवासनदर्शनमोहनसदातननयनाद्याः ।
पृच्छुकसम्बोधनतः प्रयोजनीया बुधजनेन ॥ ७८ ॥
 
एते एवंविधा नान्ता अन्येऽपि ॥ यथा - स्पर्शन- सूदन रदन कोपन-आयतन-
.
 
मदन-छदन-यजन बन्धन- भवन घटत वर्णन सज्जन इत्यादिशब्देभ्यो नकारं विनाsध्यर्थे
मिलति सम्बोधनीकृतेभ्यः पुरतो गुणशब्दाः प्रयोज्याः । यथा-
.
 
असौ विभाति वाग्देवीवासनश्वेतताऽन्वितः ।
 
श्वेतपक्षे नान्तं सम्बोधनम् । तीयपक्षे नकारवर्जितं सम्बोधनम् । एते श्वेत-
श्यामादिशब्दा नियतविरुदैर्वर्णवाचका उक्काः ।
 
अधैकपक्षे नियतवर्णादिवाचकाः द्वितीयपक्षे सर्ववस्तुवाचकाः कथ्यते । यथा
श्वेतवर्णानां वाचकाः शब्दाः-
सोमतारभवाऽनन्तमुधामोदितशङ्कराः ।
 
भास्वत्कान्तसोमकान्तघनसारसदाधिकाः ॥
 
--
 
सोमच्छविमनोहारी । श्वेतपक्षे सोमश्चन्द्रस्तद्वत् । द्वितीयपक्षे सोमा सौम्यरूपा
छविः । इदं विशेषणं सर्ववस्तुव्यापि । भवच्छविपक्षे भवती या छविः । एवं
सर्वशब्देषु ज्ञेयम् ।
 
अथ कृष्णवर्णशब्दाः-
अथ रक्तवर्णशब्दाः-
विश्वरूपाच्युतानन्तश्रीधरा कलभासितः ।
बहुलासिपरपुष्टः सर्वदा तिलसद्द्युतिः ॥
 
-
 
.
 
-
 
अयं पीतवर्णशब्दाः-
नवभास्वत्सुखोद्योतनालीकाशोकमङ्गलाः ।
विभाप्रभातरङ्गौ च सज्जपावनपाचकौ ॥
 
जातरूपसदापीनकल्याणमधुरोचिताः ।
बहुशोभाऽनुवृत्तिश्री भस्वत्प्रद्योतनावपि ॥
 
अहो सरचितच्छायः स्वकामरचितस्थितिः ।
स्पष्टाऽम्बरश्रियं बिभ्रत्तारापथक्कृतस्थितिः ॥
स्फुरनवनिबद्ध श्रीः सदा भूतलसद्धुतिः ।
सदा हि विश्ववल्गुश्रीविलसद्वैभवाऽन्वितः ॥
सदा सज्जलसल्लक्ष्मीः परमोदकवैभवः ।
कान्तारचितसंस्थानः सदा रामश्रियं वहन् ॥
 
वृत्तलक्ष्मीमनोहारी निस्तुलश्रीमनोरमः ।
अहो गौरवसलक्ष्मीरलंवरचितस्थतिः ॥
 
-
 
अथाऽऽधारशब्दाः-
अथाऽऽकारशब्दाः-