This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता- [ प्रतानः ३-
पङ्कजं सुवर्णकमलम् । पक्षे भूरि प्रचुरं पङ्कजवत् । जातरूपाऽम्बुजम् । जातरूपं सुवर्णं

तस्य कमलं तद्वत् । पक्षे उत्पन्नरूपं यदम्बुजम् । सुवर्णाम्भोजम् । स्वर्णाम्बुजम् । रक्त.
-
पक्षे सोशोभनवर्णं यदम्भोजं तहस ।
 
द्वत् ।
 
नवीनेत्यादि । तपनीयं सुवर्णम् । पक्षे तपनस्य सूर्यस्येयं श्रीः । धातुर्गैरिकं तद्वत् ।

पक्षे धातुर्ब्रह्मणः । विनतासृसुतौ गरुडाऽरुणौ ।
 
g
 

॥ ७६ ॥
 

 
एवमनया भङ्ग्याऽन्यानपि शब्दान् स्वबुद्ध्या परिकल्पयेत् ॥

 
विभिन्नवर्णविभिन्नाकार विभिन्न क्रियादीनामुद्दिष्टवस्तूनामभेदप्रतिपस्यत्त्यर्थं शब्दा यथा-
-
 
परमविशदस्वद्द्वदृशायोग्यान्तरहृद्यरुच्यहार्यार्थाः

अपरापिनद्धनवसन्नव्याप्तानूनकिञ्चनसमानाः
॥ ७६ ॥
 
ननुसमशुभसम्पन्ना वपुषामइसाङ्गकेन समाः

देहेसदाप्रभृतयो विराजते दृश्यते प्रमुखाः ॥ ७७ ॥

 
परमप्रभृतिशब्दानाम वर्णांकारक्रियादिशब्दा यथौचित्यं प्रयोज्याः । यथा-
-
 
परमस्थूलतायुतः । एकपक्षे परमा प्रकृष्टा स्थूलता । द्वितीयपक्षे परमतिशयेन अस्थूलता ।

विशदश्वेतताशाली । विशदा निर्मला । पक्षे विशन्ती अश्वेतता । स्वचलताशाली ।

स्वकीया चलता । पक्षे सुष्ठु अचलता । एवं शुभसम्पन्नशब्दं यावत् ज्ञेयम् । अत्र सु-

रुचिर - श्रीमधुर-शोभामधुराद्याः शब्दाः ज्ञेयाः । वपुषाद्याः सकारान्ताः तृतीयैकवचना-

न्
ता अङ्गकेनाद्या अकारान्तास्तृतीयैकवचनान्ता देहेप्रमुखा अकारान्ताः सप्तम्येक
वचनान्ता:

वचनान्ताः
सदासर्वदाद्या राजतेमुख्या आत्मनेपदान्ताः क्रियाश्च ।
 

 
स्वकामादिमगुणता स्वगुणत्वादृते तनौ ।

वहन्नाहितगुणतां गुणत्वात्पटुनो भृशम् ॥

 
सर्वत्र गुणशब्दो वर्णाकारादिवाची । यथा -
 
-
 
स्वकामश्वेततां बिभ्रदादिमस्थूलतां वहन् ।
 

 
स्वं, काममत्यर्थं श्वेतताम् । पक्षे अश्वेतताम् । स्वकामादिमां प्रथमां स्थूल
ताम् ।
ताम् ।
पक्षे अस्थूलतामादिम् ।
 

 
एवं स्वकामादिशब्दयोः पुरस्थगुणशब्दा भावार्थताप्रत्ययान्ता द्वितीयैकवचना-
स्ता

न्तश्चा
कार्याः । चञ्चलत्वादृते देहे । चञ्चलत्वेनाऽऽवृदृते । पक्षे ऋते विना चञ्चलत्वात् ।
 

 
एवं गुणशब्दानां भावार्थत्वप्रत्ययान्तानां पञ्चभ्म्येकवचनान्तानां पुरतः ऋतेशब्दः

प्रयोज्य:यः, तद्ग्रे अकारान्तो देहादिशब्दः सप्तभ्म्येकवचनान्तो विशेष्यरूपः कार्यः । वह
-
न्नाहित कृष्णताम् । आहिता या कृष्णता तां वहन् । ह्रस्वोपधत्वान्नद्वयम् । पक्षे न
वहन् ।
 

 
एवं हस्वोपधशत्रन्तशब्देभ्यः पुरस्थाहितशब्दानामग्रे भावप्रत्ययान्तगुणशब्दा

द्वितीयैकवचनान्ताः प्रयोज्याः । रक्तत्वात्पटुनो भाति । रक्तत्वस्य विशेषणं पटुन इति ।

पक्षे पटु इति क्रियाविशेषणं, नो निषेधार्थः ।
 
७४
 

 
एवं त्वप्रत्ययान्तात् पञ्चम्येकवचनान्ताच्च गुणशब्दात् पटुनो बाढं, पटुनो भृशं
,
पटनः स्फुटं, पटुनो राजते इत्यादिशब्दाः प्रयोज्याः ॥
 
4
 
}