This page has not been fully proofread.

स्तबकः ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
७३
 
कृष्णवाचकशब्दाचीत्वाचकाः शब्दाः प्रयुज्यन्ते । कृष्णनीरं नीलवस्वम् । पक्षे
विष्णोधी तत् ।
 
एभ्यः कृष्णवाचकशब्देभ्योऽस्वरशब्दोंऽशुकशब्द प्रयुज्यते । नारायणाऽन्चरचरः ।
नारायणश्च अम्बरं च तद्वत् । पक्षे विवस्त्रम् । वासदेवांशुः । वासदेवस्यांऽशुकाः
किरणा: । पक्षे विष्णोरंशुकं वस्त्रम् ।
 
अर्कवाचकशब्देभ्यस्तार्क्ष्यशब्दः प्रयुज्यते । भानुतार्यः । भानोस्तार्था अश्वाः ।
पक्षे भानुरर्कस्तार्क्ष्यो गरुड ।
 
भीमशब्दात्कववाचकाः शब्दाः प्रयुज्यन्ते । भीमकेशः । भीमः पाण्डव: केशा-
श्व । पक्षे भीमख्य शिवस्य केशा: ।
 
4
 
.
 
कमलाशब्दात्पद्मशब्दाच्च इन ईश अधिप इति स्वरादिस्वामिशब्दाः प्रयुज्यन्ते ।
यथा— कमलेनः । रविर्विष्णुश्च ।
 
पीतेत्यादि । पत्र, विष्णु । कृष्णं पत्र दलम् । कृष्णस्य पत्रं वाहनं गरुडः ।
ष्ठु पर्ण गरुडच । मधुशनुर्विष्णुः । मधुनो माक्षिकस्य शत्रुरूपा: । इन्द्रिाया उचिता
रुक् । हरिद्वर्णेन रोचिता रुक् । विद्युत्कान्तः । पक्षे विद्युत्कान्तो मेघः । प्रियङ्ग-
वल्लसिता ज्योतिः । पक्षे प्रियमिष्टं गुडवदासितम् ।
 
सज्जातेत्यादि । सज्जातरूपवदुपशोभिनी । पक्षे जातरूपं सुवर्णं तद्वत् । सदा
पिकवत कोकिलवत् पिनध्दा । पक्षे सदापि कपिवन्मर्कटवन्नध्दा । हरिन्मणिर्दियत्नं
सूर्यः । पक्षे नीलमणिः । मधुवत्पीतः । पक्षे अमरीतः । स्वर्णवत् काञ्चनवत्कान्तिः ।
पक्षे सुष्ठु अर्णवः समुद्रस्तद्वत् ॥
 
पीतरक्तौ वसुहरी सुवर्णं हेमकन्दलः ।
 
गैरिकं पद्मभूकान्तिहंसपादारुणैस्तथा ॥ ७३ ॥
मित्राणि कोकपद्मेभ्यो गरुडेभ्यश्च बान्धवाः ।
कमलानि तथा भूरिजातरूपसुवर्णतः ॥ ७४ ॥
नवीनतपनीयश्रीः सदा धातुश्रियं वहन्
 
विनतासुतलक्ष्मीवानेवमन्यानपि स्मरेत् ॥ ७५ ॥
 
पीतेत्यादि । वसशब्देन रत्नवही । हरिशब्देन रविः पिङ्गलवर्णश्च । सुवर्णशब्देन
काञ्चनं सृष्टु वर्णं सुवर्णं कुडूमम् । हेमकन्दलः सवर्णकन्दलस्तद्वत् । रक्तपक्षे हेमकन्दलो
विद्रुमस्तद्वत् । गैरिकशब्देन सुवर्णं धातुश्च । पद्मभूः कमलसम्भवा कान्तिः । पक्षे
पद्मभूर्ब्रह्मा तद्वत् । हंसपादं हिङ्गुलम् । पक्षे हंसस्य चरणः । अरुणो रक्तवर्णो रविश्च ।
 
मित्रेत्यादि । कोकवाचकशब्देभ्यः पद्मवाचकशब्देभ्यश्च मित्रवाचकाः शब्दाः प्रयु
ज्यन्ते । कोमित्रम् । कोकस्य चक्रवाकस्य मित्ररूपा । पक्षे कोकमित्रं रविः । पद्म-
बन्धुः । पद्मस्य बन्धुरूपा । पक्षे पद्मबन्धुः सूर्यः ।
 
गरुडवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते । गरुडबान्धवः । गरुडस्य
बान्धवरूपः । पक्षे गरुडबान्धवोऽरुणः ।
 
भूरिशब्दाज्जात रूपशब्दात्सुवर्णशब्दाच्च कमलवाचकाः शब्दाः प्रयुज्यन्ते । भूरि-