This page has been fully proofread once and needs a second look.

स्तबक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
७१
 
प्रयुज्यन्ते । वामदेवगिरिच्छायः । पीतपक्षे वामः प्रधानो देवगिरिमरुस्तद्वत् । श्वेतपक्षे

वामदेवः शिवस्तस्य गिरिस्तद्वत् । महादेवगिरिद्युतिः । महांश्चासौ देवगिरिस्तद्वत् ।

श्वेतपक्षे महादेवः शिवस्तस्य गिरिः कैलासस्तद्वत् ।
 

 
तथा विश्वपिनाकिशब्दाद्गिरिवाचका:काः शब्दाः प्रयुज्यन्ते । विश्वेपिनाकिशैल-
श्रीः ।
श्वेतपक्षे विश्वे जगति पिनाकिशैलः कैलासस्तद्वत् । पीतपक्षे विश्वेऽपि जग
-
त्यपि नाकिशैलो मेरुस्तद्वत् ।
 

 
उच्चकैरित्यादि । रजतवद्र्व्रूप्यवदन्ते श्रीः । पक्षे अजो ब्रह्मा तद्वत्तान्ता श्रीः ।

विधौ चन्द्रे ब्रह्मणि च । तारं रूप्यं तस्य कूटः । पक्षे सुशोभितारकूटवद्वीरीतिवत्

श्रीः । स्वर्णं सुवर्णम् । पक्षे सुष्टुठु अर्कोणो जलम् ।
 

 
मधु इत्यादि । मधु क्षौद्रं दुग्धञ्च । शङ्खः कम्बुः । पक्षे शोशङ्खो नागः । दहनव-

दुपलसन्ती । पक्षे दहनोपल: सूर्यकान्तस्तद्वत् । गाङ्गेयं सुवर्णम् । पक्षे गङ्गाच्छविः ॥

 
रक्तश्यामौ पुष्करहरिविदुद्रुमनागरङ्गकमलकुजाः ।
 

उत्पलधनञ्जयवृषाकपिप्रवालानि पङ्कजच्छाया ॥ ६४ ।

 
कृष्णाद्रक्तानि गुञ्जातः प्राग्रं सिन्दूरभूषणैः ।
 

द्विषस्तमोसिताब्जेभ्यः पद्मिनीभ्यो दलानि च ॥ ६५ ॥

 
कमलाधिपपझेद्मेशौ सुरागाहितसूर्यसूः ।
 

रत्नाकरवरश्रीकः सदाधिकमलद्युतिः ॥ ६६ ॥

 
सदासिन्दूरमुज्झता कालेयत्वं वहन् रुचा ।

स्फुटकामाऽङ्कुशच्छायां कलयन्नलिनश्रियम् ॥ ६७ ॥

 
स्फुटशोभन ताम्रश्रीर्विदूरमणिदीधितिः ।
 

वराहस्वामिधामश्रीः सम्पन्नखविभाभरः ॥ ६८ ॥
 

 
रक्तेत्यादि । पुष्करद्युतिष्ठसुन्दरः । पुष्करशब्देन पद्माकाशौ । हरिशब्देन रवि-

विष्णू । विद्रुमं प्रवालं विशिष्टो द्रुमश्च । नागरङ्गश्रिया युतः । नागरङ्गो नारिङ्गफलं

तद्वत् । पक्षे नागः सर्पस्तद्वत्, रङ्गः प्रभा । कमलं सरोरुहम् । पक्षे को यमस्तथा

मलब्बञ्च । कुजशब्देन मङ्गलवृक्षौ । उत्पलं नीलाम्बुजम् । पक्षे उत्कृष्टपलवत् ।

धनञ्जयशब्देन पावकार्जुनौ । वृषाकपिशब्देन कृष्णाग्नी ।
 
3
 

 
वृषाकपिर्वासुदेवे शिवेऽग्नौ च ।
 

 
प्रवालशब्देन प्रकृष्टकेशा विद्रुमश्च । पङ्कजं कमलं, पडेङ्के जाता छाया च ।

कृष्णेत्यादि । कृष्णशब्दाद्रत्नवाचकाः शब्दाः प्रयुज्यन्ते । कृष्णरत्नं वैदूर्यादि ।

पक्षे कृष्णरत्नं कौस्तुभः ।
 

 
गुञ्जावाचकशब्देभ्यः प्राग्रशब्दः प्रयुज्यते । गुञ्जाप्राग्रः । रक्तपक्षे गुञ्जावत्प्राग्रः

प्रधानः । कृष्णपक्षे गुञ्जायाः प्राग्रम् अग्रं तद्वत् ।
 

 
सिन्दूरवाचकशब्देभ्यः भूषणवाचकाः शब्दाः प्रयुज्यन्ते । सिन्दूरस्य भूषणं तद्वत् ।

कृष्णपक्षे सिन्दूरभूषणा गजाः ।
 

 
तमोवाचक शब्देभ्यस्तथाऽसिताब्जवाचकशब्देभ्यो
 
.
 
द्विट्वाचकाः शब्दाः प्रयु
 
-