This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृता-
[ प्रतानः ३-
रिसमप्रभः । रक्तपक्षे सरोजानाम् अरिरूपा स्पर्द्धिनि प्रभा यस्य । श्वेतपक्षे सरोजारि-

श्चन्द्रस्तत्समा । कुमुदारिद्युतिद्योती । श्वेतपक्षे कुमुदानामरिरूपा स्पर्द्धिनी छुद्युतिर्या

तया द्योती । रक्तपक्षे कुमुदारिरादित्यस्तद्वत् द्युतिः ।
 

 
वृषेत्यादि । वृषाकपिप्रभाशोभी । वृषाकपिशब्देन शिवानलो । सूर्योपललिसित-

द्
युतिः । सूर्यवदुपलसिता । पक्षे सूर्योपल:लः सूर्यकान्तस्तद्वत् सिताः शुभ्राः । सोमप्रभा -

तरङ्गश्रीः । सोमः प्रशस्योदयः प्रभातस्य रङ्गस्तद्वत् । पक्षे सोमश्चन्द्रः तस्य प्रभातरङ्गः

कान्तिवीची तद्वत् । सुधातुलसितद्युतिः । सुधावदतुला सिता शुभ्रा । पक्षे सुष्टुठु धातु-

वल्लसिता ॥
 

 
पीतश्वेतौ गौर द्विजराजकपर्दचन्द्रहंसाऽर्काः ।
 

शम्भुमहारजतार्जुन हरिहैमाऽष्टापदानि कलधौतम् ॥ ६० ॥

 
हरिगोपत्योस्तार्क्ष्यः कान्तो राचतश्च बान्धवास्तेभ्यः ।

वाममहाग्रगदेवाद्विगिरयो विश्वेऽपि नाकिनोऽपि स्युः ॥ ६१ ॥

 
उच्चकैर जतान्तश्रीविधौ वर्षाणापमां वहन् ।
 

सुशोभितारकूटश्रीः स्वर्णस्तीमसितद्युतिः ॥ ६२ ॥

 
मधुद्युतिमनोहारी शङ्ख कान्तिमनोरमः ।
 

दहनोपलसत्कान्तिर्गाङ्गेयच्छविसम्भ्रमः ॥ ६३ ॥
 

 

 
पीतेत्यादि । गौरद्युतिमनोहारी । गौरशब्देन श्वेतपीते । द्विजराजप्रभाशोभी ।

द्विजराजशब्देन चन्द्रगरुडौ । कपर्दद्युतिविद्योती । कपर्दशब्देन वराटकधूर्ज टिजटा-

जूठौंटौ । चन्द्रद्युतिमनोहरः । चन्द्रशब्देन शशी सुवर्णं च । हंसशोभाप्रशस्यश्रीः ।

हंसशब्देन रविचक्राङ्गौ । अर्कलक्ष्मीमनोहरः । अर्कशब्देन स्फटिकादित्यौ । शम्भु-

शोभामनोहारी । शम्भुशब्देन शिवब्रह्माणौ । महारजतदीधितिः । पीतपक्षे महा-

राजतं सुवर्णं तद्वत् । श्वेतपक्षे महती रजतवत् रूप्यवद्दीधितिर्यस्य । अर्जुनप्रभया शोभी।

अर्जुनशब्देन तृणश्वेतौ । हरिप्रमामनोहारी । हरिशब्देन चन्द्रः पिङ्गलवर्णश्च । हैम-

स्तोमप्रभः सोमः । पीतपक्षे हैमस्तोमः स्वर्णराशिः । सितपक्षे हिराशिः । अष्टा-

पदप्रभास्पष्टः । अष्टापदशब्देन सुवर्णशरभौ । कलधौतकलद्युतिः । कलधौतशब्देन

रूप्यसुवर्ण ।
 
1
 
-
 

 

 
हरिगोपत्योरित्यादि । हरिगोपतिशब्दाभ्यां पुरतस्तार्क्ष्यशब्दः प्रयुज्यते । यथा -
-
हरितार्क्ष्य प्रभाशोभी । पीतपक्षे हरिर्भानुस्तार्क्ष्यो गरुडस्तद्वत् । श्वेतपक्षे हरेरिन्द्रस्य

तार्क्ष्योऽश्व उच्चैश्रवास्तद्वत् । सदागोपतितार्क्ष्यश्रीः । पीतपक्षे गोपतिर्भानुस्तार्क्ष्यो

गरुडस्तद्वत् । श्वेतपक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्योऽश्वस्तद्वत् ध्रुद्युतिः ।
 

 
रविवाचकशब्देभ्यः कान्तशब्दः प्रयुज्यते । रविकान्तधुद्युतिद्योती । पीतपक्षे

रविवत्कान्ता द्युतिः । श्वेतपक्षे रविकान्तः सूर्यकान्तस्तद्वत् श्रुद्युतिः ।
 

 
तेभ्यो रविवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते। रविबान्धवदीधितिः ।

पीतपक्षे खेरवेर्बान्धवरूपा दीधितिर्यस्य । श्वेतपक्षे रविबान्धवश्रन्द्रस्तद्वत् धृचन्द्रस्तद्वत् द्युतिः ।
 

 
वामशब्दस्य महाशब्दस्याऽग्रतो यो देवशब्दस्तस्य पुरतो गिरिवाचिन:नः शब्दाः