This page has been fully proofread once and needs a second look.

स्तबक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
->
 
कारातिदीधितिः । अनेकपायसच्छायः । वपुर्महोदधिच्छायं वहन् । स्पष्टांशुकश्रियं

बिभ्रत् । धौताम्बरश्रियं श्रयन् । स्फटिकान्तश्रियं बिभ्रत् । स्फटिकाचलल्लक्ष्मीः ।

स्फटी सर्पः । पुरो गजलल्लक्ष्मीः । जलमुक्तान्तदीधितिः । जलं च मुक्ताश्च तद्व-

दन्ते दीधितिर्यस्य । पक्षे जलमुक् मेघः तद्वत्तान्ता । अवश्यायश्रियं वहन् । सैन्धव-

द्युतिविद्योती । कलितो माधवश्रिया । शोभते वराहरोचितच्छाया यन्मूर्त्तिः । वृषा
-
कपिद्युतिद्योती । वृषाकपिशब्देन कृष्णशिवौ ॥
 

 
रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्यकान्ताऽब्जाः ।

नवहंसमहापद्मार्क सोदराः कमलकीलाले ॥ ५७ ॥

 
सुहृद्रत्नानि भानुभ्यो वन्हिह्निरत्नरदांशुकैः ।
 

जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥ ५८ ॥

 
वृषाकपिप्रभाशोभी सूर्योपलसितद्युतिः ।
 

सोमप्रभातरङ्गश्रीः सुधातुलसितद्युतिः ॥ ५
 

 
रक्तेत्यादि । हरिवैभवभावर:सुरः । हरिशब्देन रविचन्द्रौ । शुचिशोभाविभूषितः ।

शुचिशब्देन शुभ्रवर्णो वह्निदवश्च । यथा -
 
-
 
शुचिः शुद्धे सितेऽनले ।

ग्रीष्मापाढानुपहतेषू पधाशुद्ध मन्त्रिणि ।
 

शृङ्गारे - -इत्यनेकार्थः ।
 
-
 

पुष्करद्युतिरोचितः । पुष्कर शब्देन जलक्रशब्देन जलकमले शतपत्रप्रभाशोभी । शतपत्र-
शब्देन हंसकमले ।
 

 
सूर्यवाचकशब्देभ्यः कान्तशब्दः प्रयुज्यते । भानुकान्तततयुतिः । रक्तपक्षे भानु-

वत्कान्ता रुचिर्यस्य । श्वेतपक्षे भानुकान्तः सूर्यकान्तस्तद्वगुद्रुचिः । अब्जकान्तिमनो-

हारि । अब्जशब्देन चन्द्रकमले । नवहंससमद्युतिः । नवहंसशब्देन बालार्कबाल-

हंसौ । महापद्मांशुकद्युतिः । महापद्मं च नागश्च अंशुकं वस्त्रं श्वेतपक्षे रक्तपक्षे कमल-

किरणा: । अर्कंसोदरदीधिति:तिः । अर्कंशब्देन स्फटिकाऽऽदित्यौ । कमलच्छविभासुरः ।

कमलशब्देन जलपङ्कजे । कीलालच्छविभासुरः । कीलालशब्देन रुधिरजले ।
 

 

 
सु
हृद्रत्नानीत्यादि । भानुवाचकशब्देभ्यः सुहृद्वाचकशब्दाः रक्तवाचकशब्दा
श्च
प्रयुज्यन्ते । रविमित्रप्रभाशोभी । श्वेतपक्षे रविमित्रं चन्द्रः । रक्तपक्षे खेमिंरवेर्मित्ररूपा

प्रभा । भानुरत्ननिभद्युतिः । श्वेतपक्षे भानुरत्नं सूर्यकान्तः । रक्तपक्षे रविर्मणिश्च ।

 
वह्निवाचकशब्देभ्यो रत्नवाचकशब्दाः प्रयुज्यन्ते । वह्निरत्नोपमधुद्युतिः । रक्तपक्षे

वह्निश्च रत्नं च तद्वत् ।
 

 
रदवाचकशब्देभ्योंऽशुकवाचिन: शब्दाः प्रयुज्यन्ते । रदांशुकचुद्युतिद्योती । श्वेत-

पक्षे रदाश्च अंशुकानि च तद्वत् द्युतिः । रक्तपक्षे रदांशुकोऽधरः तद्वत् ।'
 

 

 
जलवाचकशब्देभ्यो जन्मशोभावाचकाः शब्दाः प्रयुज्यन्ते । युक्तो जलजशोभया ।

श्वेतपक्षे जलजाता शोभा उक्तपक्षे जलजं कमलं तद्वत् ।
 
1
 

 
सरोजवाचकशब्देभ्य:
 
यः कुमुदवाचकशब्देभ्यश्चाऽरिवाचकशब्दाः प्रयुज्यन्ते । सरोजा-