This page has not been fully proofread.

स्तबक: ३ ]
 
काव्यकल्पलतावृत्तिः ।
 
->
 
कारातिदीधितिः । अनेकपायसच्छायः । वपुर्महोदधिच्छायं वहन् । स्पष्टांशुकश्रियं
बिभ्रत् । धौताम्बरश्रियं श्रयन् । स्फटिकान्तश्रियं बिभ्रत् । स्फटिकाचललल्लक्ष्मीः ।
स्फटी सर्पः । पुरो गजलमल्लक्ष्मीः । जलमुक्तान्तदीधितिः । जलं च मुक्ताश्च तद्व-
दन्ते दीधितिर्यस्य । पक्षे जलमुक् मेघः तद्वत्तान्ता । अवश्यायश्रियं वहन् । सैन्धव-
द्युतिविद्योती । कलितो माधवश्रिया । शोभते वराहरोचितच्छाया यन्मूर्त्तिः । वृषा
कपिद्युतियोती । वृषाकपिशब्देन कृष्णशिवौ ॥
 
रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्यकान्ताऽब्जाः ।
नवहंसमहापद्मार्क सोदराः कमलकीलाले ॥ ५७ ॥
सुहृद्रत्नानि भानुभ्यो वन्हिरत्नरदांशुकैः ।
 
जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥ ५८ ॥
वृषाकपिप्रभाशोभी सूर्योपलसितद्युतिः ।
 
सोमप्रभातरङ्गश्रीः सुधातुलसितद्युतिः ॥ ५६ ॥
 
रक्तेत्यादि । हरिवैभवभावर: । हरिशब्देन रविचन्द्रौ । शुचिशोभाविभूषितः ।
शुचिशब्देन शुभ्रवर्णो वह्निदव । यथा -
 
शुचिः शुद्धे सितेऽनले ।
ग्रीष्मापाढानुपहतेषू पधाशुद्ध मन्त्रिणि ।
 
शृङ्गारे - इत्यनेकार्थः ।
 
-
 
पुष्करद्युतिरोचितः । पुष्कर शब्देन जलक्रमले शतपत्रप्रभाशोभी । शतपत्र-
शब्देन हंसकमले ।
 
सूर्यवाचकशब्देभ्यः कान्तशब्द प्रयुज्यते । भानुकान्तततयुतिः । रक्तपक्षे भानु-
वत्कान्ता रुचिर्यस्य । वेतपक्षे भानुकान्तः सूर्यकान्तस्तद्वगुचिः । अब्जकान्तिमनो-
हारि । अब्जशब्देन चन्द्रकमले । नवहंससमद्युतिः । नवहंसशब्देन बालार्कबाल-
हंसौ । महापद्मांशुकयुतिः । महापद्मं च नागश्च अंशुकं वस्त्रं श्वेतपक्षे रक्तपक्षे कमल-
किरणा: । अर्कंसोदरदीधिति: । अर्कंशब्देन स्फटिकाऽऽदित्यौ । कमलच्छविभासुरः ।
कमलशब्देन जलपङ्कजे । कीलालच्छविभासुरः । कीलालशब्देन रुधिरजले ।
 

 
सहृद्रत्नानीत्यादि । भानुवाचकशब्देभ्यः सहृद्वाचकशब्दाः रक्तवाचकशब्दाच
प्रयुज्यन्ते । रविमित्रप्रभाशोभी । श्वेतपक्षे रविमित्रं चन्द्रः । रक्तपक्षे खेमिंत्ररूपा
प्रभा । भानुरत्ननिभद्युतिः । श्वेतपक्षे भानुरत्नं सूर्यकान्तः । रक्तपक्षे रविर्मणिश्च ।
वह्निवाचकशब्देभ्यो रत्नवाचकशब्दाः प्रयुज्यन्ते । वह्निरत्नोपमधुतिः । रक्तपक्षे
वह्निश्च रत्नं च तद्वत् ।
 
रदवाचकशब्देभ्योंऽशुकवाचिन: शब्दाः प्रयुज्यन्ते । रदांशुकचुतियोती । श्वेत-
पक्षे रदाश्च अंशुकानि च तद्वत् द्युतिः । रक्तपक्षे रदांशुकोऽधरः तद्वत् ।'
 

 
जलवाचकशब्देभ्यो जन्मशोभावाचकाः शब्दाः प्रयुज्यन्ते । युक्तो जलजशोभया ।
श्वेतपक्षे जलजाता शोभा उक्तपक्षे जलजं कमलं तद्वत् ।
 
1
 
सरोजवाचकशब्देभ्य:
 
कुमुदवाचकशब्देभ्यश्चाऽरिवाचकशब्दाः प्रयुज्यन्ते । सरोजा-