This page has not been fully proofread.

भूमिका ।
 
वर्णनमद्भुतवर्णनप्रकारं च प्रपन्य चित्रकाव्यप्रकार उपवतिः । चतुर्थे
अलङ्काराभ्यासप्रकारमुपवर्ण्य वर्ण्यवस्तूनामाकारक्रियादिकं च प्रदर्श्य संख्या-
वाचकशब्दानां विशिष्टं वर्णनं कृत्वाऽन्ते समस्यापूरणप्रकार: प्रदर्शितः, एवंच
ग्रन्थसमाप्तिरपि कृता ।
 
अस्य वैशिष्टयम् – दशमशताब्यामवस्थितस्य राजशेखरस्य काव्य.
मीमांसाऽपि कचिदंशे कवितानिर्माणविधिमुपदिशति न पुनः साकल्येन ।
तत्र पुन: साहित्यस्याऽलङ्कारशास्त्रस्य वा विषयाः प्रतिपादिताः, तथाच सर्व
एवं आकर ग्रन्था एतादृशः । परं केवलं कवितानिर्मितिविधि नेते प्रतिपाद्यन्ती-
त्यतिरोहितमेव विदुषाम् । प्रसिद्धस्य काश्मीरकस्य राज्ञोऽनन्तदेवस्य सभायां
वर्तमानो महाकविः क्षेमेन्द्रः कविकण्ठाभरणं नाम स्वल्पकायं कविताशास्त्रस्य
मूलतत्त्वबोधकं ग्रन्थं निर्ममौ, परमभ्यासकर्तॄणां कृते न सोऽपि पर्याप्त इति ।
द्वादशशताब्दीकस्य जयसिंहसिद्धराजस्य समये निर्मिता जयमङ्गलाचार्योपज्ञा-
कविशिक्षाऽत्यन्तं स्वल्पेति साऽपि नोपयुक्ता सुतराम् । हलायुधकृतं कविरहस्यं
तु केवलं क्रियाप्रयोगवैचित्र्योद्बोधकमित्येकदेशीयमेव । इत्थमिद्मापतितं यत्
अभ्यसितुः कृते तदिदं ग्रन्थरत्नद्वयं काव्य कल्पलता – कविकल्पलताभिधं
परमोपयोगितया भूषणायते । तत्रापि कविकल्पलता तु नैतस्याः काव्य-
कल्पलतायास्तुलनामारोढुं क्षमा, साच साकल्येन एतस्या एवाऽनुकृतिः, बह्वंशेषु
तु सैव वर्णाबलिरक्षरशोऽनुसता, क्वचिञ्च ग्रन्थसारल्यायैतद्गतो विस्तरोऽपि
संक्षेपं नीतः । 'असतोऽपि निबन्धेन' – इत्यारभ्य 'ऐक्यमेवाऽभिसंमतम्'-
इत्यन्तः प्रथमप्रताने पञ्चमस्तबकस्थः, तथैवाऽन्यत्रापि बहुत्र वर्तमानो
ग्रन्थोऽक्षरशोऽनुकृतिं भजते । एवं कवितानिर्माणोपयोगिग्रन्थेष्वयमेव सर्वेभ्यः
श्रेष्ठतामावहतीति वैशिष्ट्यमेतस्य सिद्धयति ।
 
PAR
 
M
 
समयनिर्णयः - सूत्रवृत्तिकृतौ वस्तुपालवीसलदेवयोः सत्ताकाले
विक्रमीयत्रयोदशशताब्यां न्यवसतामिति पूर्वमुपरिष्टात् प्रदर्शितम् । 'सलेम साहि'
इत्यपराभिधेयजहाँगीरनृपतिराज्ये निवसता तपागक्छवासिहीरविजयसूरि-
शिष्येण शुभविजयगणिना विजयदेवसूरि प्रार्थनया शररसरसभूमि(१६६५)संमिते
वैक्रमे शतके काव्यकल्पलताया मकरन्दाख्या व्याख्या निरमायि । सचाऽयं
टीकाकृत् सप्तदशे शतके यदमुष्य ग्रन्थस्य टीकां निरमादित्यतस्ततः पूर्वमस्य
स्थितिरिति स्पष्टम् । अन्यच्च शार्ङ्गधरपद्धत्यां 'नांगविशेषे शेषे' इति पद्यस्य देवेश्वर
एव कर्तृत्वेन निर्दिष्टः । शार्ङ्गधरपद्धतिसमयश्च विक्रमीयपञ्चदशशताब्या आरम्भः ।
ततस्तत्पूर्व देवेश्वरस्य सत्ताकालः । अयं देवेश्वरः कविकल्पलताया रचयिता,
मालवाधीश्वरमहामात्यस्य वाग्भटस्य सूनुरेकं समस्यापूर्तिश्लोकं, त्रयोदश-
चतुर्दशशशताब्द्यन्तरे शासतः चौहानवंशीयस्य राज्ञो हम्मीरमहीमहेन्द्रस्य
प्रशंसायां निबबन्धेति चतुर्दशशताब्दयारम्भकाले तत्सत्ताऽऽसीदिति ज्ञायते । सच
 
-