2023-05-07 16:38:59 by manu_css
This page has been fully proofread once and needs a second look.
कृष्णवर्णपक्षे हरिजिष्णुशब्दौ विष्णुवाचकौ । हरिश्च कुम्भी च जिष्णुश्च हस्ती
व तद्वत् श्रुतिः । श्वेतवर्णपक्षे हरिजिष्णुशब्दाविन्द्रवाचकौ । ततो हरेः कुम्भी जिष्णो-
र्हस्ती ऐरावणस्तद्वद् द्युतिः । तथा कृष्णवर्णपक्षे मेघाश्च दन्तावलाश्च, समुद्राश्च द्विरदा-
श्च तद्वत् द्युतिः । श्वेतपक्षे मेघहस्ती, समुद्रहस्ती, ऐरावणः तद्वत् द्युतिः ।
तथा मुरारिवाचकशब्देभ्यः सिन्धुशब्दः प्रयुज्यते । विष्णुसिन्धुसमप्रभः । कृष्णपक्षे
मुरारिश्च सिन्धुश्च तद्वत् द्युतिः । श्वेतपक्षे मुरारेः सिन्धुर्नदी गङ्गा तद्वत् द्युतिः ।
तथा जलवाचकशब्देभ्यो वाहशब्दः प्रयुज्यते । जलवाहसमप्रभः । कृष्णपक्षे
जलवाहो मेघस्तद्वत् द्युतिः । श्वेतपक्षे जलस्य वाहस्तद्वद् द्युतिः ।
कृष्णशब्दादम्बुजवाचिनः शब्दाः प्रयुज्यन्ते । कृष्णाऽम्भोजसमप्रभः । कृष्णपक्षे
कृष्णाम्भोजं नीलोत्पलम् । श्वेतपक्षे कृष्णस्य हरेरम्भोजं नाभिपुण्डरीकं तद्वत् द्युतिः ।
यमुनावाचकशब्देभ्यस्तथा कुम्भिवाचकशब्देभ्यो द्वेषिवाचिन: शब्दाः प्रयुज्यन्ते ।
यमुनारिसमप्रभः । कुम्भिद्वेषिरुचिः सदा । कृष्णपक्षे यमुनाया अरिरूपा स्पर्द्धिनी
रुचिर्यस्य, कुम्भिनां द्वेषिणी रुचिर्यस्य । श्वेतपक्षे यमुनारिर्बलदेवः कुम्भिद्वेषी सिंह-
स्तद्वत् द्युतिः ।
कृष्णार्थेत्यादि । कृष्णवाचकशब्दात् पुरःस्थितनदीवाचकशब्देभ्यो वरशब्दः
प्रयोज्यः । कृष्णकुल्या वरद्युतिः । श्वेतपक्षे कृष्णकुल्या गङ्गा तद्वत् द्युतिः । श्यामपक्षे
कृष्णो विष्णुः कुल्यावरः समुद्रः तद्वत् द्युतिः । नीरदद्युतिभासुरः । नीरदो मेघस्त-
द्वत् । पक्षे निश्चिता रदवत् दन्तवत् द्युतिः । घनोपलसितश्रीः । घनवत् मेघवत् उप-
लसिता श्रीः । पक्षे घनोपलः करकस्तद्वत्सिता शुभ्रा श्रीः । सदाहिमकरद्युतिः ।
हिमकरश्चन्द्रस्तद्वत् । पक्षे अहिः सर्पो मकरश्च । सिन्धुवेणिश्रियं वहन् । सिन्धुर्नदी
तस्याः वेणिः प्रवाहस्तद्वत् । पक्षे सिन्धुः समुद्रो वेणिः केशपाशबन्धः तद्वत् । पृथु-
लाजसमद्युतिः । पृथुलाजवत् कान्तिः । पक्षे पृथुला अजसमा विष्णुसमा ।
शङ्ककरेत्यादि । युक्तः शङ्खकरश्रिया । शङ्खस्य कराः किरणानि । पक्षे शङ्खकरो
विष्णुः तारकेशच्छविः । तारकेशश्चन्द्रस्तद्वत् । पक्षे तारा दीप्ता केशवत् छविः । सदा
काशश्रीः । सद्विद्यमाना आकाशवत् । पक्षे सदा काशवत् । व्योमकेशच्छविः ।
व्योम च केशाश्च तद्वत् । पक्षे व्योमकेशः शिवस्तद्वत् । ताललक्ष्मश्रीः । तालश्च लक्ष्म
च तद्वत् । पक्षे ताललक्ष्मा बलदेवः । नीलांऽशुकश्रीः । नीलानाम् अंशुकानां किरणानां
श्रीः । पक्षे नीलांऽशुको बलदेवस्तद्वत् । अधिकेशच्छायः । अधि सामस्त्येन केशवत् ।
पक्षे अधिकम् ईशवत् । अरिष्टरुचिः । अरिष्टशब्देन तक्रकाकौ । यथा--
अरिष्टो लशुने निम्बे फेनेऽल्पे कङ्ककाकयोः ।
अरिष्टं सूत्यगारे तच्चिह्ने तक्रे शुभेऽशुभे ॥
सदासिचयरोचिष्णुः । सिचयं वस्त्रं तद्वत् । पक्षे असिचयः खड्गश्रेणिः । कलकण्ठ-
द्युतिः । कलकण्ठा पिको, हंसश्च । यथा--
कलकण्ठः पिके पारावते हंसे कलध्वनौ ।
लोकोतीर्णाः शब्दाः । वहन् कलभवच्छायाम् । सदाधिकेशवच्छायः । अन्ध-