This page has not been fully proofread.

स्तबक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
६७
 
सद्विषाणां श्रियं वहन्, सर्पवत् । विश्वेत्रपुच्छवित्राजी, रसितलोहवत् । उच्च् चूतश्रियं
वहनू, बनवत् । नोटितस्थितिमुहहन्, मुनित् । सदापिच्छविराजितः, रविवत् ।
विपक्षोचितवैभवः, नृपवत् । स्फुरद्विपक्षतिस्थितिः, रणवत् । इत्यादिशब्दा मत्कृत-
काव्यकल्पलतापरिमले शेषसमुच्चयात् ज्ञातव्याः ॥
 
इति श्रीजनदत्त० श्लेषसिद्धिप्रताने तृतीये सर्ववर्णनस्तबको द्वितीयः ।
 
अथोद्दिष्टवर्णनम् ।
वर्णादिभिर्विभिन्नस्योद्दिष्टवस्तुद्वयस्य यत् ।
 
अभेदः क्रियते श्लेपात्तत्स्या दुद्दिष्टवर्णनम् ॥ ५२ ॥
विभिन्नवर्णद्वयानां पड् भेदाः । यथा – श्वेतश्यामौ श्वेतरक्तौ, श्वेतपीतौ, रक्तश्यामौ,
पीतश्यामौ, पीतरक्तौ ।
 
-
 
एषां क्रमेण शब्दा यथा -
 
श्वेतश्यामौ विधुहरिताराघनसारशम्भुनागेन्द्राः ।
श्रभ्राऽशमगर्भरामानन्तार्जुनचन्द्रहाससिंहीजाः ॥ ५३ ॥
हरजिष्णोर्वनाक्षिभ्यो गजाः सिन्धुर्मुरारितः ।
 
नयन-
श्रद्भ्यो वाहोऽम्वुजात् कृष्णाद् यमुना कुम्भतो द्विषः ॥ १४ ॥
कृष्णार्थाग्रगतटिनीवाचकशब्दाग्रतो वरो योज्यः ।
नोरदवनोपलसितसदाहिमकर सिन्धुवे शिपृथुलाजाः ॥ ५५ ॥
शङ्खकरतारकेशसदाकाशव्योमकेशतालाङ्काः ।
नीलांशुकाधिकेशाऽरिष्टसदासिचयकलकण्ठाः ॥ ५६ ॥
श्वेतश्यामावित्यादि । विधुवैभवभासुरः । विधुश्चन्द्रो, विष्णुश्च । हरिहास्तिर-
छुतिः । हरिशब्देन चन्द्रविष्णू । तारास्फारतरद्युतिः । ताराशब्देन तारका,
कंनोनिका च । घनसाररुचिस्फारः । कृष्णपक्षे घना मेवास्तवत्साररुचिः । श्वेतपक्षे घन-
सारशब्द: कर्पूरवाची शम्भुशोभामनोहरः । शम्भुशब्देन हरिहरौ । नागेन्द्ररुचिर-
च्छाय: । नागेन्द्रशब्देन शेषो हस्तीन्द्रश्च । अम्रप्रभामनोहारो। अनशब्देन मेघो-
Sअकञ्च । अश्मगर्भसगर्भाशुः । अइमगर्भशब्देन मरकतं, पाषाणगर्भश्च । सदा रामा-
ऽभिरामश्रीः। रामशब्देन दाशरथिर्बलदेवश्च । अनन्तरुचिरोचिष्णुः । अनन्तशब्देन
विष्णुर्बलदेवश्च । अर्जुनच्छविपेशल: । अर्जुनशब्देन पार्थो धवलवर्णश्च । चन्द्रहासः
प्रकाशश्रीः । चन्द्रहासशब्देन खड्गः, चन्द्रल्य हासः प्रकाशश्च । सिंहीजरुचिरो-
चितः । सिंहीजशब्देन राहु: सिंहश्च ।
 

 
हरेजिष्णोरित्यादि । हरिशब्दात् जिष्णुशब्दात् घनवाचकशब्देभ्यो ऽब्धिवाचक-
शब्देभ्यश्च गजवाचकाः शब्दाः प्रयुज्यन्ते । यथा -
 
हरिकुम्भिनिभज्योतिर्जिष्णुहस्तिनिभप्रभः ।
मेघदन्तावलच्छायः समुद्र द्विरदद्युतिः ॥