This page has not been fully proofread.

स्तबकः २ ]
 
काव्यकल्पलतावृत्तिः ।
 
अहो वामनताटोपः सदाऽखर्वतमस्थितिः ।
समहासङ्कटोल्लासः सम्बाधस्थितिमुद्दहन् ।
तरस्त्वरोचितौ भावबद्धतारोचितौ तमः । ।
वर्थस्याकारशब्दानामेते योज्याः पुरो बुधैः ॥ ५० ॥
 
यथा - स्थूलतरस्थितिः । महत्वरोचितस्थितिः । सुदीर्घभावबहुश्रीः । सूक्ष्मतारो-
चितस्थितिः । गुरुतम स्थितिः ।
 
अथ क्रियाशब्दाः-
सदा चटुलसलक्ष्मी रुचैस्तरलताऽन्वितः ।
अचलस्थितिविद्योती सदा स्थिरचितचुतिः ॥
प्रकाशयन् सदाध्वानमुकैः कलकलाऽन्वितः ।
साक्षाद्विपाटनाटोपः सत्वरोचितवैभवः ॥
असौ पवित्रसल्लक्ष्मीः सजपावनवैभवः ।
अलं म्लानपदं बिभ्रन्नितान्तमलिनस्थितिः ॥
उपकण्ठे स्थितिं बिभ्रत सनीडस्थितिपेशलः ।
सन्निधानस्थितिश्रेष्ठो विप्रकृष्टश्रियं वहन् ॥
 
६५
 
अथाssधेयादिशब्दाः-
कीला भोगगुणासङ्गचूर्णचन्द्रकसन्धयः ।
सदा लिपीनां लक्ष्मीले खारेखाक्षरवर्णकाः ॥
पीवरज्वाळयोद्योती मृदुदारेष्टकासितौ ।
दारुणस्थितिसत्काष्टाभोगौ धर्मसदाजिनौ ॥
कृत्तिका कार्तिकेयश्री: सुखटीकासित स्थितिः ।
समोपाधिकपरमहहृद्भ्यः स्यादयः स्थितिः ॥
परमन्तरसाटोपं वहन् स्पष्टान्तरस्थितिम् ।
सदाविलांशुको चेलो वेशावासश्रियोऽम्बरम् ॥
पोतः सदाधिकपटः सदासिचयभासुरः ।
विस्पष्टाञ्जनसल्लक्ष्मीः शोभितार्णस्थितिं वहन् ।
तान्तवस्थितिमुद्विभ्रन्माधुर्यगुणसंयुतः ।
लसल्लवणिमप्रौढः स्फुरत्तीव्ररुचिस्थितिः ॥
मौलिश्रोत्रो लिक भ्रूहनुरदकरहकतालुना सौष्ठवक्त्र-
स्कन्धग्रीवाभुजोरः स्तनकञ्चनखवाङ्मध्यनाभ्यं सदेशाः ।
कक्षा रोमाङ्घ्रिजङ्घावलिकटिजघनाङ्गुष्ठगुल्फाङ्गुलीस्फिग्-
गुह्यक्रोडप्रकोष्ठावटुकफणितलभ्रान्तिकान्तिप्रकाण्डाः ॥
पुरुषादिवर्णनायाऽङ्गोपाङ्गनामश्लेषो यथा - उंचैरङ्गमनोहरो, नाट्यवत् । साक्षाद-
धिकविग्रहो, दैत्यवत् । ऋशोभिततनुश्रियं वहन्, नृपवत् । समुल्लसितनूपुरश्रीः
 
स्त्री-
९ का० ऋ०
 
-