This page has not been fully proofread.

६४
 
अमरचन्द्रयतिकृता-
नवधूसरसाटोपः सदा शबलसद्युतिः ।
विभात्यधिकपोतश्रीरासभासितवैभवः
 

 
अथाऽऽधारशब्दाः-
ed
 
स्वर्जनस्थितिरोचिष्णुः स्वर्गलाभकरस्थितिः ।
तदा दिवि हितोल्लासः सुरावासनयाऽन्वितः ॥
 
सव्योमसङ्ग विद्योती सन्नभोगगनस्थितिः ।
अश्रान्तस्थितिरोचिष्णुः सदाकाशकृतस्थितिः ॥
 
स्वयं भूस्थितिविभ्राजिसम्पन्नवधास्थितिः ।
स्फुरदरित्रिकास्थान: स्फुरद्धारकसंस्थितिः ॥
 
वडवा
मुखरोचिष्णुः सदा पातालवैभवः ।
स्फुरद्विसनावासः सदा बलिगृहस्थितिः ॥
 
सश्रीकाननरोचिष्णुः कान्तार चितवैभवः ●
 
अधिकासारसारश्रीविनीतश्रियं वहन् ॥
 
इति धूसरवर्णः ।
 
इति स्वर्गाधारः ।
 
गिरिस्थितिमनोहारी कुशैलाभोगभासुरः ।
 
प्रतिभूधरसंरम्भः पर्वतस्थितिमुद्वहन् ॥
 
अथाऽऽकारशब्दा:-
इति व्योमाधारः ।
 
-
 
इति भूम्याधारः ।
 
[ प्रतान: ३-
इति पातालाधारः ।
 
स्वर्णस्थितिमनोहारी सदा नीरोचितस्थितिः ।
सज्जलक्षणविद्योती सदम्भस्थितिपेशलः ॥
 
इति शैलाधारः ।
 
इति वनसरोनद्याधारः ।
 
सम्पन्नवेश्मनि स्थायी सदनस्थितिभासितः ।
सद्मनः स्थितिमुद्वित् शुशोभिनिलये स्थितः ।
 
इति जलाधारः ।
 
सद्वृत्ताभोगसंशोभी सर्वदारालसस्थितिः ।
उरस्थितिविद्योती ह्यधिकं प्रांशुवैभवः ॥
ऊर्मिमद्वैभवोद्भासी वक्राङ्गस्थितिशोभितः ।
सदैव तनुताभोगो नितान्तमणिमद्युतिः ॥
सदा तीव्रवतारोपो निशितारोचितस्थितिः ।
पृथुस्थितिमनोहारी स्फुरद्विपुलक स्थितिः ॥
 
इति गृहाधारः ।