This page has been fully proofread once and needs a second look.

स्तबक: २ ]
 
काव्यकल्पलतावृत्तिः ।
 
६३
 
अहो गौरखे वेत्येक पदेनैव ये केऽपि श्वेतपदार्था भवन्ति, ते सर्वेऽप्येवं वर्ण्यन्ते ।

वर्णादीनां सङ्ग्रहो यथ-
-
 
था--
 
सत्कोणवृत्तलघुलम्बपुराणनव्य-

चक्रान्त दूरचल निश्चलदुःसुगग्धाः ।

सूक्ष्मोरुतीव्रपृथुसङ्कटनिस्ससार-

स्थानप्रभासरसनीरसवामनाः स्यु ॥ ४९ ॥
 

 
प्रभा श्वेतपीतादिको वर्ण:णः । सत्कोणबृवृत्तलघुलम्बा दिराकारः । स्थानशब्देन

स्वर्गाऽऽकाशभूपातालपर्वतनदीवनप्रभृतिक आधारः । चलनिश्चलादिकाः क्रियाः ।

पुराण -नव्य -अन्तर-दूर-दुर्गन्ध- सुगन्ध- निःसार-ससार-सरस-नीरसादिभिराधेयादयः ।

अमीषां च वर्णादीनां नामानि पूर्वोक्तश्लेषरीत्या सश्लेषाणि क्रियन्ते । पूर्वं श्वेतवर्ण-
.
 

शब्दा यथा-
-
 
गौरी भूतकलाशाली परमश्वेततादृतिः ।
 

सपीवरसितोल्लासाः परशुभ्रासितादयः ॥

 
आदिशब्दादन्येऽपि यथा - अधिकगौरचित स्थितिः , सुराष्ट्रवत् । प्रियंगौरचिता-

टोपं बिभ्रत्, भृङ्गवत् । पुरो गौर साटोपश्रीः तरुणीवत् । विश्वेतत्वमनोहरो, योगिवत् ।

स्पष्टां श्वेतश्रियं बिभ्रत्, भानुवत् । लोलुपश्वेतवैभवः, पशुपालवत् ॥
 
-
 

 
 
एवं वर्णादिनामश्लेषशब्दाः, सदृग्गुणपदार्थश्लेषशब्दाश्च बहवो मत्कृत - --काव्य-

कल्पलतापरिमले श्लेषशब्दसमुच्चयात् ज्ञेयाः । सदृग्गुणशब्दा यथा-
-
 
अहो चन्द्रकसल्लक्ष्मीर्घनसारश्रियं वहन् ।

सदा नवसुधाशोभी विभ्राणो राजतश्रियम् ॥
 

 
एवं सर्वत्र गुणशब्दाः सदृग्गुणशब्दाश्च श्लेषा: 1
षाः । इति श्वेतवर्णः ।
 
अधिकारुण्यसंशोभी स्फुरन्माञ्जिष्ठवैभवः ।

सदा विराजताम्रश्रीबेर्बहुलोहितवैभवः ॥

 
विद्रुमप्रवरच्छाय: प्रवालस्थितिपेशलः ।

अशोकश्रीमनोहारी बन्धुजीवनवर्धिभाः ॥
 

 
इति रक्तवर्णः ।
 
अधिकप्रश्रियं बिभ्रत्कलारचितवैभवः ।

रङ्गत्पिङ्गलतासङ्गी मधुपीतश्रियं वहन् ।

 
जातरूपश्रियं बिभ्रत्परागश्रीविराजितः ।

कर्णिकारचितच्छायस्तरणिस्थितिभासुरः ॥
 

 
इति श्वेतवर्णः ।
 
इति रक्
पीतवर्ण: ।
 
इति पीतवर्ण: ।
 

 
असितत्वमनोहारी बहुश्यामलतान्वितः

स्वभावनीलसल्लक्ष्मीः सदा रामोदितद्युतिः ॥

 
केशवामोदितच्छायो नदीनश्रीमनोहरः ।

अन्धकारातिरोचिष्णुर्बिभ्रत्कुवलयस्थितिम् ॥
 

 
इति श्यामवर्णः ।