2023-04-12 04:24:33 by ambuda-bot
This page has not been fully proofread.
स्तबक: २ ]
काव्यकल्पलतावृत्तिः ।
६३
अहो गौरखे त्येक पदेनैव ये केऽपि श्वेतपदार्था भवन्ति, ते सर्वेऽप्येवं वर्ण्यन्ते ।
वर्णादीनां सङ्ग्रहो यथ-
-
सत्कोणवृत्तलघुलम्बपुराणनव्य-
चक्रान्त दूरचल निश्चलदुःसुगग्धाः ।
सूक्ष्मोरुतीवपृथुसङ्कटनिस्ससार-
स्थानप्रभासरसनीरसवामनाः स्यु ॥ ४९ ॥
प्रभा श्वेतपीतादिको वर्ण: । सत्कोणबृत्तलघुलम्बा दिराकारः । स्थानशब्देन
स्वर्गाऽऽकाशभूपातालपर्वतनदीवनप्रभृतिक आधारः । चलनिश्चलादिकाः क्रियाः ।
पुराण नव्य अन्तर-दूर-दुर्गन्ध- सुगन्ध- निःसार-ससार-सरस-नीरसादिभिराधेयादयः ।
अमीषां च वर्णादीनां नामानि पूर्वोक्तश्लेषरीत्या सश्लेषाणि क्रियन्ते । पूर्वं श्वेतवर्ण-
.
शब्दा यथा-
गौरी भूतकलाशाली परमश्वेतताहतिः ।
सपीवरसितोल्लासाः परशुभ्रासितादयः ॥
आदिशब्दादन्येऽपि यथा - अधिकगौरचित स्थितिः राष्ट्रवत् । प्रियंगौरचिता-
टोपं बिभ्रत्, भृङ्गवत् । पुरो गौर साटोपश्रीः तरुणीवत् । विश्वेतत्वमनोहरो, योगिवत् ।
स्पष्टां श्वेतश्रियं बिभ्रत्, भानुवत् । लोलुपश्वेतवैभवः, पशुपालवत् ॥
-
एवं वर्णादिनामश्लेषशब्दाः, सहग्गुणपदार्थश्लेषशब्दाश्च बहवो मत्कृत - काव्य-
कल्पलतापरिमले श्लेषशब्दसमुच्चयात् ज्ञेयाः । सहग्गुणशब्दा यथा-
अहो चन्द्रकसल्लक्ष्मीर्घनसारश्रियं वहन् ।
सदा नवसुधाशोभी विभ्राणो राजतश्रियम् ॥
एवं सर्वत्र गुणशब्दाः सहग्गुणशब्दाच श्लेषा: 1
अधिकारुण्यसंशोभी स्फुरन्माञ्जिष्ठवैभवः ।
सदा विराजताम्रश्रीबेहुलोहितवैभवः ॥
विद्रुमप्रवरच्छाय: प्रवालस्थितिपेशलः ।
अशोकश्रीमनोहारी बन्धुजीवनवर्धिभाः ॥
अधिकप्रश्रियं बिभ्रत्कलारचितवैभवः ।
रङ्गत्पिङ्गलतासङ्गी मधुपीतश्रियं वहन् ।
जातरूपश्रियं बिभ्रत्परागश्रीविराजितः ।
कर्णिकारचितच्छायस्तरणिस्थितिभावरः ॥
इति श्वेतवर्णः ।
इति रक्तवर्ण: ।
इति पीतवर्ण: ।
असितत्वमनोहारी बहुश्यामलतान्वितः
स्वभावनीलसलक्ष्मीः सदा रामोदितयुतिः ॥
केशवामोदितच्छायो नदीनश्रीमनोहरः ।
अन्धकारातिरोचिष्णुर्बिभ्रत्कुवलयस्थितिम् ॥
इति श्यामवर्णः ।