This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
स्तबक: १ ]
 
इत्यादिशब्दानामादौ अमात्रशब्दः प्रयोज्यः ।
 
-
 
मात्राधिकेवलज्ञान: - पक्षे केवलाज्ञानः । कृपण कमल कल वल भर हर इत्या-
दिशब्दानामादौ मात्राधिकशब्द प्रयोज्य: ।
 
अतिक्रान्तक्रमभारतीस्थितिः, पक्षे तीरभास्थितिः । वलितक्रमपोतवैभवः,
पक्षे तपोवैभवः । हर नन्दुक वाल मार कर्तन सह भावि राजा भार्गव
धारा लङ्का रसा दिवा दीन नीलिमा राक्षस रुन चार पुत्र शाप भान पात्र रद कपि
छग वलभी इत्यादिशब्दानामादौ अतिक्रान्तक्रम, वलितक्रमशब्द प्रयोज्यौ ।
 
केवलको कस्थितिः, पक्षे करकस्थितिः । कम्बल कोमल दाव प्रमोद इत्यादि-
शब्दानामादौ केवलशब्दः प्रयोज्य: । अन्तर्गुरुकृपण स्थितिः, पक्षे कृपाण स्थिति: । शरज
प्रमद निकर विकर इत्यादिशब्दानामादौ अन्तर्गुरुशब्दः प्रयोज्यः ।
 
५१
 
अतिगुरु कमलस्थितिः, अन्तगुरुकमलस्थितिः, पक्षे कमलास्थितिः । पद्म राम
बाल वाम इत्यादिशब्दानामादौ अतिगुरुशब्दोऽन्तगुरु शब्दश्च प्रयोज्यः ।
 
आदिगुरुबलस्थितिः, पक्षे बालस्थितिः । वर कल दह हर चर इत्यादिशब्दाना-
मादौ आदिगुरुशब्द प्रयोज्यः ।
 
अथ वर्णाक्षेपेण श्लेष प्रकारान्तरमाह-
क्रमतोऽपूर्वोऽञ्चिताचितासितावाहितोहितोरूढाः ।
उद्योतिकान्तिकासितकामोदितकुलसिताः कसंचापि ॥ २८ ॥
उदितं क्रमाच्च कूटोपचितं खचितं सुखं पुरोगचितम् ।
गाहितगुरूढगूढ घनव द्धिघोरीकृता ज्ञेयाः ॥ २६ ॥
घाटोपवितोच्चरोचितचक्राञ्चितकरोचिताश्चान्तम् ।
छविराजिमुखाश्च लसन् सज्जं जालोचितश्च जातियुतः ॥ ३० ॥
ज्ञानाद्वर्द्धा टोपचिततिरोहिततानवर्द्धिनो बोध्याः ।
तारोचितस्थिरोचितस्तिरोहितस्थानवर्द्धिनो ज्ञेयाः ॥ ३१ ॥
स्थामोचितद्रोचितदान्तो धीरोचितञ्च धनवर्धी ।
दामोदितो वरोचितनव्याप्तनिचितनव द्धिनियताश्च ॥ ३२ ॥
निहितनिवद्धपरोचितपिहितपिनडुप्रभासितप्रमुखाः ।
प्रान्तप्रकटप्रवरप्रमोदिताः पोनवर्द्धा च ॥ ३३ ॥
पूरोवितप्रमोदितप्राग्रप्रभासिताः स्कुटोपचितम् ।
स्फारोचितश्च फलसद्विलसद्वामोदिता वसद्व्याप्तौ ॥ ३४ ॥
विपरीतविकटसम्पन्नविभासितवरोचित त्रूढाः ।
विप्रोत्कृष्टोद्भासितभारोचितभानवर्द्धिभूव्याप्ताः ॥ ३५ ॥
भासितभीमोदितमोहितमहसन्मानवर्द्धिनो ज्ञेयाः ।
याना द्वर्थी रोचितरचितौ शेपचितरूढरूपचिताः ॥ ३६ ॥
रामोदितलसितल सल्लाभाश्रितलूनवद्धिनो लवसत् ।
लोनाद्वर्थी शुभ्राजितशकलशुभासिताः सुशोभव ॥ ३७ ॥