This page has not been fully proofread.

४८
 
अमरचन्द्रपतिकृता-
अथ श्लेषसिद्धिमतानः ।
 
तत्र पूर्वं श्लेषव्युत्पादनं यथा-
वर्गाकारक्रियाधाराधेय सम्बन्धिवन्धवः ।
 
[ प्रतानः ३-
द्विपक्षीप्रियसम्पर्किस्वामितुल्यगुणादयः ॥ १ ॥
एषां स्यान्नामभिः श्लेषो नानार्थैर्वरार्यवस्तुनि ।
भङ्गश्लेषोऽधिककसन्मुख्यैः पूर्वाग्रः पुनः ॥ २ ॥
 
वर्ण्यवस्तूनां वर्ण्यादिनाम्नां मध्याद्यद्यन्नाम द्वयर्थं व्यर्थं नानार्थं वा भवति तेन
नाम्ना श्लेषः कार्यः । यथा धवलार्जुनहरिगोप्रभृतयः शब्दाः । भङ्गलेपस्तु वर्ण्यवर्ण्या-
दिनाम्नः पूर्वगतैरधिकादिभिरग्रगतैः कसदादिभिः सामान्यशब्दै रथें मिलति यथासंभव
कार्यः । यथा कमलशब्दस्य मल इति अग्रेतनाक्षरायें मिलति पूर्वाक्षरकोट्यते। यथा-
'अधिकमलशली' । अधिकशब्दः सामान्यः । तथा करकशब्दस्य कर इति पूर्वाक्षारा
मिलति उत्तराऽक्षरकस्रोट्यते । यथा 'करकसल्लक्ष्मीः' । कसच्छब्दः सामान्यः ।
पूर्व पूर्वाक्षराणां त्रोटनाय पूर्वप्रयोज्या: सामान्यशब्दा यथा -
 
-
 
-1
 
अधिकस्वकस्वकीयकसश्रीकाः सुखसुगौ पुरोगश्च ।
ज्ञेया: समानोच्चसदास्वच्छाः सदाच्छसज्जौ च ॥ ३ ॥
तज्ज्ञाभिज्ञ सुखज्ञाः शोभितविभ्राजितादयः स्वस्थः ।
सुखदं तद्दं शोभा बद्धसौन्दर्य प्रभृतितो बद्धम् ॥ ४ ॥
सम्पन्नसुशोभनलोलुपसम्पन्नवसगौरवमहाभाः ।
बहुशोभन सदाशुभबहुभाः परमसमानयामनोहृद्यम् ॥ ५ ॥
पीवरसुरुचिरमधुरा मज्जुलपृथुलौ स्वभावतः शंश्च ।
सुमुखदशः समहासः ससमग्रहपरमहौ च बहुलक्षः ॥ ६ ॥
एतैः शब्दः पदानां पूर्वाक्षराणि त्रोठ्यन्ते । यथा - सश्री क- पालिस्थितिः कैलासः,
सरोवत् । स्व-क-लङ्काभोगः शशी, रावणवत्। स ख रोचितः कुलालः सुकृतिवत् । सुख-
लीनस्तुरगः, सुकृतिवत् । सुख-द्योतस्तपाययो, नृपवत् । पुरोग बलस्थितिः सारङ्गधनुः,
-
मल्लचत् । समा-न-घ-न-र-स-भा-सितं सरो, नृपवत् । उच्चा-मरश्रीः नृपतिः, इन्द्रवत् ।
सदाऽच्छ-गणराजितं गोस्थानं, रुद्रस्थानवत् । स जं-वी-रगणं विभ्रत् वनं, नृपवत् ।
अभिज्ञातिस्थितिः कुलीनो, विदग्धगोष्ठीवत् । शोभित रङ्गान्वितो जलधिः, नटवत् ।
स्वस्थपुटताशाली शैलमार्गो, मृदङ्गवत् । सुख-दा-नस्थितिः वदान्यः, शाकटिकवत् ।
शोभाबद्ध बलान्वितो रुद्रो, नृपवत् । सुशोभ-न-गरस्थितिः सुनृपः, शिवकण्ठवत् ।
लोल-प-वन-स्थितिः सागरतरङ्गो, गिरिवत् । सम्पन्न-व-सुधाभोगः पार्थिवः, सुरवत् ।
बहु-शो-भ- वनान्वितं पुरं, गिरिवत् । परमहेलाशाली द्वेधापि कामुकः । मनो-
हृ-द्यो- धस्थितिः युद्धभूमित्र धेनुवत् । सुरुचि-र-मणीरमणीयः पाणिग्रहमहो, रोहण -
वत् । पृथु-ल-क्षणं गृहं, चन्द्रवत् । स्वभावशरणधुरीणो द्वेधा सुभटः । सम-हास-कलः
सज्जनः पूर्णिमेन्दुवत् । परम-इ-सितश्री: सुकृती, शिववत् ।
बहुल क्ष- पर्ण