This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
ग्रामीणपारिपार्श्विक नान्दीच टुकारभक्तपरिवाराः ।

प्राकृतपरान्नमायिकदासपराधीनयद्वदास्त्रधराः ॥ २०३ ॥

 
वैमात्रेयेर्ष्यालूनपरिचारकभर्तृहारककनिष्ठाः ।
 
स्तबकः ४ ]
 

अधमर्णराजवंश्यौ वन्दारुरताञ्चलस्फुलिङ्गकरणाः ॥ २०४ ॥

 
दिङ्गात्र मात्रमेकदेशः खण्डं वाबालोऽङ्कुरः शिशुता ।

संक्षेपक्षामत्वावयवकलाशीकरलहर्यः ॥ २०६ ॥

 
इत्याद्या लक्षणाशब्दाः सद्गशत्वोपयोगिनः ।

उपमाने क्वचिद्रोप्या उपमेये कन्चित्तथा ॥ २०६ ॥

 
उपमाने यथा -
 
--
 
इन्दुर्वक्त्रस्य वीप्सासदनमुपकथा पादयोः पङ्कजाली,
 

पर्यायोलिः कबर्या, ननु तनुमहसां कर्णिकाकर्णिकारम् ।

 
आभासः कुम्भिकुम्भयमुरसिजयोयोः, कामकोदण्डदण्डः,

पाखण्डं भ्रूलताया, रतिरभिनयनं, पश्य रूपस्य यस्याः ॥
 

 
उपमेये यथा-
-
 
व्यापेषेधो धरणीधरे शितुरनध्यायः सुधाया, विधो-

रन्तर्द्धिर्धनद्राचलस्य निधनं, दुग्धोदसिन्धोः पिधा

प्रत्याख्यानममानवद्विपमहादेहद्युतेर्निन्हवो
 

जान्हह्नव्यास्तव भूभुजङ्ग यशसां भारो दिशां हारति ॥

 
अन्येऽपि लक्षणाशब्दा लिख्यते । यथा- -लुण्टाक जल्पाक गृहयालु स्पृहयालु

घस्मर मेदुर भङ्गुर छिंछिदुर जागरूक वावदूक विकस्वर प्रमद्वर सत्वर जित्वर गत्वर कम्प्र

उन्मदिष्णु वैतण्डिक मात्रियिक तुन्दिल तुण्डिक पिचण्डिल पिचण्डिक तुण्डिल लुतुण्डिक

शुभंयु: <error>दन्युर </error><fix>दन्तुर</fix> जङ्घाल दंष्ट्राल भुजाल पांसुल प्रज्ञा प्रशिल प्रज्ञिल रजस्वल फेनिल वाचाल

वाचाट मुखर पड्डिङ्किल इत्यादयो, विद्वन्नाम चौर महोत्साह उद्धत कोपन वैरङ्गिक

कर्मशूर अलर्माङ्कर्मीण कर्मठ घृधृष्ट सज्जन बन्धुगोत्रादीनां नामानि । एवंप्रकाराः शब्दाः

लक्षणासाधका यथैौचित्यं प्रयोज्याः । यथा-
-
 
विप्रोऽध्प्ययं द्रुतमहीन महीनकीर्ति-
-
 

र्
लुण्टाकशक्तिरपसादगुरुप्रसादः ।
 

वेध्यं प्रपातयति पश्यत रे नरेन्द्राः !
 

कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् ॥
 
४७
 

 
इति श्रीजिनदत्तसूरिशिष्यमहाकविपण्डित श्रीमदमरविरचितायां कविशिक्षा-

वृत्तौ शब्दसिद्धिप्रताने लाक्षणिकः स्तबकश्चतुर्थः ।
 

-------------------
सम्पूर्ण श्राचाऽयं शब्दसिद्धिप्रतानो द्वितीयः ॥
 
gardappe