This page has been fully proofread once and needs a second look.

प्राण्याज्यज्ञातिसुहृद्दायादसनाभिसहचरसतीर्थ्याः ॥ १८५ ॥
 
सब्रह्मचारिनीलीरागसहाध्यायिसदृश<flag>सध्य्रञ्चः</flag> ।
गणनाधिकः सवर्णः संवादी सांयुगीनरिपू ॥ १८६ ॥
 
अधिदैवतविद्यागुरुकुलनाथकुलपुरःपुरुषाः ।
ओङ्कारचक्रवर्तिक्षेमङ्करसार्थवाहतीर्थानि ॥ १८७ ॥
 
ज्येष्ठलभावत्यग्रेसरोत्तमर्णप्रतीक्ष्यजितकाशि ।
अद्वैतवादिधुर्योल्लाघनगृहमेधिनोऽध्यक्षाः ॥ १८८ ॥
 
तत्त्चब्रह्मोपनिषद्रहस्यचैतन्यधृतपरात्मानः ।
सौरभ्योत्कर्षरसाभोगानन्दाभिजात्यपरभागाः ॥ १८६ ॥
 
लयसर्वस्वविलासास्तण्डुल निर्यासभाग्यमज्जानः ।
जीविततात्पर्यार्थव्युत्पत्त्यपवादमर्ममकरन्दाः ॥ १९० ॥
 
साम्राज्यसिंहनादाहङ्कारैश्वर्यसंस्कृतविपाकाः ।
सारोद्धारनिदानव्याख्याटीकाचरित्रविश्रम्भाः ॥ १९१ ॥
 
मूलद्रव्यविवेकव्याकरणनिरुक्तसौष्ठवाभ्युदयाः ।
सौन्दर्योन्मेषनवीनत्वप्ररोहसंभ्रमोत्साहाः ॥ १९२ ॥
 
वैदग्ध्यावष्टम्भावुत्सवनवनीतयौवनादेशाः ।
महिमनिघण्टौद्धत्यान्तरङ्गपूर्वोक्त्यधित्यकास्वेच्छाः ॥ १९३ ॥
 
व्याप्तिर्बहुघनपीवक्षीबमहोद्दामतुङ्गताः प्रौढिः ।
सर्वाभिसारवृद्धिव्यूहव्यासाऽट्टहाससङ्घट्टाः ॥ १९४ ॥
 
विष्कम्भवज्रपातानध्यायापन्हवाविसंवादाः ।
केतूदयान्तरायावातङ्कोपप्लवाध्यवस्कन्दाः ॥ १९५ ॥
 
प्रत्याख्यानान्तर्द्धिव्याषेधविडम्बनान्यतीचाराः ।
अनुपदारुन्तुदकद्वदवैरङ्गिकनास्तिकाः पुरोभागी ॥ १९६ ॥
 
स्थायी द्रव्यं किट्टस्तुषपिण्याकौ पलालपदधूली ।
उद्वाहपूर्वरङ्गप्रतिमाप्रस्तावनाट्यसम्फेटाः ॥ १९७ ॥
 
अङ्गोद्वर्तनशाखापुरशाखामङ्गलावतरणानि ।
प्रश्नोत्तरप्रहेले कलभकिशोरौ प्रवालमञ्जर्यौ ॥ १९८ ॥
 
निर्माल्यभङ्गिकरणीकैतवपाखण्डिकर्णिकाभेदाः ।
तर्णकपरागसैन्योपपदसमस्याकलान्तरोत्सर्गाः ॥ १९९ ॥
 
प्राकाम्यवस्तुवाचिकसम्बोधनपादुकावहित्थानि ।
व्यवहारकिंवदन्तीप्रभूतविज्ञानकारिकोपाधिः ॥ २०० ॥
 
बहिरङ्गोपश्रुतिमृगतृष्णानासीरपादपीठानि ।
व्यापृतिदिग्धपरोक्तागण्डूषोपत्यकाप्रहसनानि ॥ २०१ ॥
 
युवराजशिष्यसैनिकसचिवप्रतिहारमण्डलेशगणाः ।
वैहासिकसेनानीवैतालिकबटुपदात्यनुगाः ॥ २०२ ॥