This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
श्रा
युर्घृतमायुरेवेदम्
 
....................
 
अनयोः शुद्धभेदयोः कार्यकारणभावः सम्बन्धः, सादृश्याभावान्न गौणता । यथा

आयुष्कारणं घृतं तथा न क्षीरादीति क्षीरादिवैसादृश्येन आयुःशब्दान्न व्यभिचारतीति

कार्यकारित्वादि प्रयोजनम् ।
 
स्तबक: ४ ]
 
उपादानलक्षणा, लक्षणलक्षणा
शुद्धसाव्यवसाना इति षड् भेदाः
 
४५
 

 
............................
षड्भेदेति लक्षणा ॥ १८१ ॥

 
उपादानलक्षणा, लक्षणलक्षणा,
गौणसारोपा, गौणसाध्यवसाना, शुद्धसारोपा,
 

शुद्धसाव्यवसाना इति षड् भेदाः ।
 
आरोग्प्यारोपविषयौ सारोपायां स्फुटावुभौ ।
 

पुनः साध्यवसानायामरोण्प्याऽन्तर्गतः परः ॥ १८२ ॥

 
आरोप्यो गवादिः आरोपविषयो वाहीकादिः, सारोपा सादृश्यहेतुका, एपाषा उप-

मानोपमेयत्र विद्यमानरूपत्वात् रूपकालङ्कारबीजम् । यत्राऽऽरोप्येण गवादिना निगीर्ण-

तया आरोपविषयस्य वाहीकादेः प्रतीतिः सा साध्यवसाना, इयमतिशयोक्तेर्बीजम् । यथा -
--
 
कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।

सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥

 
कार्यकारणभावादिलक्षणायां तु न रूपकादिविषयता, सदृश्याभावात् । यथा -
--
 
आयुर्घृतं यशस्त्यागो भयं चौरः सुखं प्रिया ।

वैरं द्यूतं गुरुर्ज्ञानं श्रेयः सत्तीर्थसेवनम् ॥

 
तथा अन्यापदेशालङ्कारस्य साव्यवसानलक्षणात्वम् । यथा -
--
 
अनर्थः कोऽप्यन्तस्तव हरिण हेवाकमहिमा
 

स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः ।
 

 
इत्यत्र हरिणेन सह प्रतीयमानस्याऽभेदः ।
 

 
सम्बन्धा बहवः । यदुक्तम्- -'एकशतं षष्ठ्यर्था: । कथाः’ । क्वचित्तादर्थ्यादुपचारः, यथा-
-
इन्द्रार्था: स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावाद्यथा- -राजकीयः पुरुषो राजा । क्वचि
-
दवयवावयविभावाद्यथा - --अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । क्वाऽपि तात्कर्म्यात्
 
-
 
-
 
-
 
यथा -

यथा--
अतक्षा तक्षा । क्वचिन्मानाद्यथा - --आढकमश्नाति । क्वचित् स्थानाद्यथा-मञ्जाः
चाः
क्रोशन्ति । इत्यादयः सर्वे यथालक्ष्यं लक्षणीयाः । यदाहु: - हुः--'सहचरणस्थानतादर्थ्य-

वृत्तिमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराज सक्तुचन्दनगङ्गाशाटका-

नपुरुषेष्वतद्भावेऽपि तदुपचार:रः' । ९पुएषु शुद्धा लक्षणा । काचित् रूढितः, काचित् प्रयो

जनात्, काचित् सारोपा, काचित् साध्यवसाना ।
 

 
अथ लक्षणाहां:र्हाः केचिच्छब्दाः कथ्यन्ते-
-
 
चित्रेन्द्रजालवाच्यद्विर्भावस्वप्नयमकसंवादाः ।
द्वैगुण्याभिनयकथाद्विरुक्तिपर्यायवक्रपुनरुक्तिः
॥ १८३ ॥
 
चित्रेन्द्रजालवाच्यद्विर्भावस्वप्नयमकसंवादाः ।
द्वैगुण्याभिनयकथाद्विरुक्तिपर्यायवक्रपुनरुक्तिः

 
रूपावस्थार्थावपुर्भवान्तरं परिणतिविवर्त्ती 1
तौ ।
अनुवादानुप्रासानुकृतिच्छाया प्रतिबिम्बशब्दौ च ॥ १८४ ॥

 
प्रतिवीरमल्लनायककविवेशी न्धुरनुकूलः ।