This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
श्रायुर्घृतमायुरेवेदम्
 
अनयोः शुद्धभेदयोः कार्यकारणभावः सम्बन्धः, सादृश्याभावान्न गौणता । यथा
आयुष्कारणं घृतं तथा न क्षीरादीति क्षीरादिवैसादृश्येन आयुःशब्दान्न व्यभिचारतीति
कार्यकारित्वादि प्रयोजनम् ।
 
स्तबक: ४ ]
 
उपादानलक्षणा, लक्षणलक्षणा
शुद्धसाव्यवसाना इति षड् भेदाः
 
४५
 
षड्भेदेति लक्षणा ॥ १८१ ॥
गौणसारोपा, गौणसाध्यवसाना, शुद्धसारोपा,
 
आरोग्यारोपविषयौ सारोपायां स्फुटावुभौ ।
 
पुनः साध्यवसानायामरोण्याऽन्तर्गतः परः ॥ १८२ ॥
आरोप्यो गवादिः आरोपविषयो वाहीकादिः, सारोपा सादृश्यहतुका, एपा उप-
मानोपमेयत्र विद्यमानरूपत्वात् रूपकालङ्कारबीजम् । यत्राऽऽरोप्येण गवादिना निगीर्ण-
तया आरोपविषयस्य वाहीकादेः प्रतीतिः सा साध्यवसाना, इयमतिशयोक्तेर्बीजम् । यथा -
कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा कयम् ॥
कार्यकारणभावादिलक्षणायां तु न रूपकादिविषयता, सहश्याभावात् । यथा -
आयुर्घृतं यशस्त्यागो भयं चौरः सुखं प्रिया ।
वैरं द्यूतं गुरुर्ज्ञानं श्रेयः सत्तीर्थसेवनम् ॥
तथा अन्यापदेशालङ्कारस्य साव्यवसानलक्षणात्वम् । यथा -
अनर्थः कोऽप्यन्तस्तव हरिण हेवाकमहिमा
 
स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः ।
 
इत्यत्र हरिणेन सह प्रतीयमानस्याऽभेदः ।
 
सम्बन्धा बहवः । यदुक्तम्- 'एकशतं षष्ठ्यर्था: । कचित्तादर्थ्यादुपचारः, यथा-
इन्द्रार्था: स्थूणा इन्द्रः । क्वचित स्वस्वामिभावाद्यथा- राजकीयः पुरुषो राजा । क्वचि
दवयवावयविभावाद्यथा - अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । क्वाऽपि तात्कर्म्यात्
 
-
 
-
 
-
 
यथा - अतक्षा तक्षा । कचिन्मानाद्यथा - आढकमश्नाति । क्वचित् स्थानाद्यथा-मञ्जाः
क्रोशन्ति । इत्यादयः सर्वे यथालक्ष्यं लक्षणीयाः । यदाहु: - 'सहचरणस्थानतादर्थ्य-
वृत्तिमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराज सक्तुचन्दनगङ्गाशाटका-
नपुरुषेष्वतद्भावेऽपि तदुपचार:' । ९पु शुद्धा लक्षणा । काचित् रूढितः, काचित् प्रयो
जनात्, काचित सारोपा, काचित् साध्यवसाना ।
 
अथ लक्षणाहां: केचिच्छब्दाः कथ्यन्ते-
॥ १८३ ॥
 
चित्रेन्द्रजालवाच्यद्विर्भावस्वप्नयमकसंवादाः ।
द्वैगुण्याभिनयकथाद्विरुक्तिपर्यायवक्रपुनरुक्तिः
रूपावस्थार्थावपुर्भवान्तरं परिणतिविवर्त्ती 1
अनुवादानुप्रासानुकृतिच्छाया प्रतिबिम्बशब्दौ च ॥ १८४ ॥
प्रतिवीरमल्लनायककविवेशी वन्धुरनुकूलः ।