2023-04-12 04:24:28 by ambuda-bot
This page has not been fully proofread.
४४
अमरचन्द्रयतिकृता-
[ प्रतानः २-
द्यथा- 'अभद्रमुखे भद्रमुखः
C
अत्र भद्रमुखशब्दस्य अभद्रमुखे प्रयोगात् स्वार्थ-
बाधः । अतोऽसौ स्ववाच्यनुतस्य नद्रमुखत्वस्य वैपरीत्याद भद्रमुखत्वं लक्ष-
जयाऽवगमयति । प्रयोजनं तु गुप्ताऽसभ्याधंप्रतीतिः । क्रियायोगाद्यथा- 'महति समरे
शत्रुघ्नस्त्वम् इति । अत्र अशत्रुघ्ने शत्रुघ्नशब्दप्रयोगात् स्वार्थबाधः । शत्रुघ्नशब्दश्च
अशत्रुध्ने शत्रुहनन क्रियाकर्तृत्वायोगात् लक्षणया प्रयुक्तः । प्रयोजनं च वर्ण्यमानस्य
शत्रुघ्नशब्दाभिधेयनृपरूपताप्रतिपादनम् । 'कर्माणि कुशल:' इत्यत्र कुशान् लातीति
दर्भग्रहणायोगात् मुख्यार्थवाचे विवेचकत्वादौ च सम्बन्धे रूढितः प्रवीणपुरुषरूपोऽर्थो
लक्षणाव्यापारेण लक्ष्यते । एवं द्विरेफद्विपानुलोम्यलावण्यादयो रूढिशब्दाः, तत एतेषु
रूढिलक्षणा । 'गङ्गायां घोषः' इत्यादौ प्रयोजनात् लक्षणा । प्रयोजनं च पावित्र्यादि
व्यङ्ग्यम् । तत्त्वमिदम् - रूढिलक्षणायां वाचको लाक्षणिकश्चेति नामद्वयम् । अभिधा,
लक्षणेति व्यापारद्वयम् । प्रयोजनलक्षणायां तु शब्दस्य वाचको, लाक्षणिको, व्यन्जक-
श्चेति नामत्रयम् । अभिधा, लक्षणा, व्यञ्जनं चेति व्यापारत्रयम् । रूढिलक्षणायान्तु
व्यङ्ग्यप्रयोजनाभावात् शब्दस्य न व्यञ्जकता न व्यञ्जनव्यापारः ।
शब्दव्यापारो निरन्तरार्थनिष्ठोऽभिधा मता ।
स तु सव्यवधानार्थनिष्ठो भवति लक्षणा ॥ १७८ ॥
सव्यवधानो मुख्यार्थबाधादिहेतुत्रयान्तरितो यो लक्ष्यस्तटादिरर्थस्तत्र विश्रान्तः
शब्दव्यापारो लक्षणा । अभिधैव मुख्यायें बाधिता सती अचरितार्थत्वात् अन्यत्र
प्रसरति, तत्पुच्छभूतैव लक्षणा ।
शुद्धोपचार मिश्राऽसौ द्विधा शुद्धाऽपि हि द्विधा ।
उपादानलक्षणाऽऽद्या परा लक्षणलक्षणा ॥ १७९ ॥
उपादानं स्वसिद्ध्यर्थं पराक्षेपः । यथा 'पुरे कुन्ताः प्रविशन्ति' । अत्र कुन्तैः
स्वप्रवेशसिध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते तत उपादानेनेयं लक्षणा ।
परार्थं स्वार्पणं लक्षणेन लक्षणलक्षणा ।
·>
यथा - 'गङ्गायां घोषः । अत्र तदस्य घोषाधिकरणतासिद्धये गङ्गाशब्द: स्वार्थ-
मर्पयतीतीत्यादौ लक्षणेन लक्षणा । अयमभिप्रायः - यत्र शब्दः सर्वथा स्वार्थमत्यजन्
अन्यमर्थ लक्षयति तत्र लक्षणेन तटादिज्ञापनेन लक्षणा स्यात् । यत्र तु स्वार्थमपि
वदन्नन्यमुपादत्ते तत्रोपादानेन लक्षणा । इमौ द्वावपि भेदौ शुद्धौ, उपचारेणाऽमिश्र-
त्वात् । यथा 'गौर्वाहीकः' इत्यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यंते, न तथाऽन्त्रेति भावः ।
उपचारमिश्राऽपि चतुर्विधा ।
सादृश्यागौणसारोपा गौणसाध्यवसानिका ॥ १८० ॥
गौर्वाहिको गौरेवाऽयम्
* यत्रोपमानगतगुणतुल्यगुणयोगलक्षणं पुरःसरी कृत्योपमेये उपमानशब्द आरोप्यते
तौ गौणौ भेदौ, गुणेभ्य आगतत्वात् गौणशब्दवाच्यो ।
सम्बन्धान्तरतः पुनः ।
विज्ञेया शुद्धसारोपा शुद्धसाध्यवसानिका ।